Saturday, September 26, 2026

Class 9 Sanskrit Sharada Chapter 4 न खलु वयस्तेजसो हेतुः Question Answers & Solutions

 



अभ्यासः (अभ्यासाद् जायते सिद्धिः)


१. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत —

अनुवाद

टूल और संसाधन


(क) खुदीरामस्य जन्म कुत्र अभवत् ?

(ख) खुदीरामः किमर्थं व्यथितः भवति स्म ?

(ग) सत्येन्द्रनाथः किम् उपदिष्टवान् ?

(घ) खुदीरामः कदा पर्यन्तं पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान् ?

(ङ) किमर्थं न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः ?


उत्तरम् :


(क) खुदीरामस्य जन्म बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे अभवत्।  

(ख) सः देशे जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।  

(ग) सत्येन्द्रनाथः उपदिष्टवान् यत् -

"क्रान्तिकार्यं कर्तुं वज्रसदृशं दृढं, बुद्धि तीक्ष्णा, मनः निर्मलः च भवेत्। "   

(घ) यावत भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धारिष्यामि इति प्रतिज्ञातवान्।  

(ङ) खुदीरामस्य मुखे भय-दुःखयोः अभाव, अपितु प्रसन्नता-शान्ति-तेजः दृष्ट्वा न्यायधीशः चकितः अभवत्।   


२. अधः प्रदत्तेषु वाक्येषु किं वाक्यं सत्यं किं च असत्यम् इति सूचयत —


(क) देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति । (सत्यम् / असत्यम्)

(ख) निर्दयः किङ्ग्ज़फोर्ड् बालान् अपि दण्डयति स्म । (सत्यम् / असत्यम्)

(ग) खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः । (सत्यम् / असत्यम्)

(घ) खुदीरामः किङ्ग्ज़फोर्डमहोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान् । (सत्यम् / असत्यम्)

(ङ) खुदीरामः बालानां संघटनं कृत्वा पदयात्राम् आयोजयति स्म । (सत्यम् / असत्यम्)


उत्तरम् :


(क) देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति । (सत्यम् / असत्यम्)

(ख) निर्दयः किङ्ग्ज़फोर्ड् बालान् अपि दण्डयति स्म । (सत्यम् / असत्यम्)

(ग) खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः । (सत्यम् / असत्यम्)

(घ) खुदीरामः किङ्ग्ज़फोर्डमहोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान् । (सत्यम् / असत्यम्)

(ङ) खुदीरामः बालानां संघटनं कृत्वा पदयात्राम् आयोजयति स्म । (सत्यम् / असत्यम्)


३. अधः प्रदत्तानां संवत्सराणां शब्दानाम् अङ्कैः सह मेलनं कुरुत —


स्तम्भ 'क'

स्तम्भ 'ख'

(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम्

१. १९०५

(ख) अष्टाधिक-नवदशशततमं वर्षम् |

२. १८८९

(ग) पञ्चाशदुत्तर-नवदशशततमं वर्षम् | 

३. १९४७

(घ) पञ्चाधिक-नवदशशततमं वर्षम् |

४. १९०८

(ङ) नवाशीत्यधिक-अष्टादशशततमं वर्षम् | 

५. १९५०


उत्तरम् :


स्तम्भ 'क'

स्तम्भ 'ख'

(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम्

३. १९४७

(ख) अष्टाधिक-नवदशशततमं वर्षम् |

४. १९०८

(ग) पञ्चाशदुत्तर-नवदशशततमं वर्षम् | 

५. १९५०

(घ) पञ्चाधिक-नवदशशततमं वर्षम् |

१. १९०५ 

(ङ) नवाशीत्यधिक-अष्टादशशततमं वर्षम् | 

२. १८८९


४. अधः प्रदत्तानि पदानि आधृत्य चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत —


पदानि : [उद्यानं, गृहाणि, पक्षिणः, पुष्पाणि, स्वच्छता, द्विचक्रिका, पर्वतः, वृक्षाः, सूर्यः, मेघाः]


(क) ________________________________

(ख) ________________________________

(ग) ________________________________

(घ) ________________________________

(ङ) ________________________________


उत्तरम् :


(क) इदम् एकस्य उद्यानस्य चित्रम् अस्ति। 

(ख) आकाशे सूर्यः उदेति, मेघाः पक्षिणः च विचरन्ति। 

(ग) उद्याने वृक्षाः पुष्पाणि च सन्ति।  

(घ) बालिका द्विचक्रिकां चालयति, अन्ये बालकाः क्रीडन्ति च।  

(ङ) अत्र सर्वत्र स्वच्छता अस्ति, दुरे च गृहाणी पर्वताः च दृश्यन्ते।  


५. सन्धिच्छेदं कुरुत —


(क) इत्यादयः = ________ + ________

(ख) सर्वेऽपि = ________ + ________

(ग) कश्चित् = ________ + ________

(घ) प्रत्येकम् = ________ + ________

(ङ) वयस्तेजसः = ________ + ________

(च) अचिरादेव = ________ + ________


उत्तरम् :


(क) इत्यादयः = इति  + आदयः

(ख) सर्वेऽपि = सर्वे  + अपि 

(ग) कश्चित् = कः  + चित् 

(घ) प्रत्येकम् = प्रति  + एकम् 

(ङ) वयस्तेजसः = वयः  + तेजसः 

(च) अचिरादेव = अचिरात् + एव


६. विग्रहवाक्यं दृष्ट्वा पाठ्यपुस्तकात् समस्तपदानि चित्वा पूरयत —


(क) देशस्य भक्ताः = ________

(ख) बालः च क्रान्तिवीरः च = ________

(ग) वज्रेण सदृशम् = ________

(घ) असेः धारा = ________

(ङ) मृत्युः एव दण्डः = ________

(च) न साधारणः = ________

(छ) निर्गता दया यस्मात् सः = ________


उत्तरम् :


(क) देशस्य भक्ताः = देशभक्ताः 

(ख) बालः च क्रान्तिवीरः च = बालक्रान्तिवीरः

(ग) वज्रेण सदृशम् = वज्रसदृशम् 

(घ) असेः धारा = असिधारा

(ङ) मृत्युः एव दण्डः = मृत्युदण्डः 

(च) न साधारणः = असाधारणः  

(छ) निर्गता दया यस्मात् सः = निर्दयः 


७. अधः दत्तानि वाक्यानि सूचनानुसारं परिवर्तयत —


यथा — खुदीरामः हुतात्मा जातः । (लङ्-लकारः) → खुदीरामः हुतात्मा अजायत ।

(क) वन्दे मातरम् इत्यादयः घोषणाः भवन्ति स्म । (लङ्-लकारः)

(ख) सत्येन्द्रनाथः खुदीरामम् उपादिशत् । (क्तवतु-प्रत्ययः)

(ग) सः नवमीं कक्षां पूर्णां कर्तुं न शक्तवान् । (लङ्-लकारः)

(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् अजनयन् । (स्म)

(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं कृतवान् । (लङ्-लकारः)


उत्तरम् :


(क) वन्दे मातरम् इत्यादयः घोषणाः अभवन्  । 

(ख) सत्येन्द्रनाथः खुदीरामम् उपदिष्टवान् । 

(ग) सः नवमीं कक्षां पूर्णां कर्तुं न अशक्नोत् । 

(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् जनयन्ति स्म । 

(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं अकरोत् । 


८. उदाहरणानुसारं चित्-प्रत्ययान्तपदानि प्रयुज्य रिक्तस्थाने पूर्णवाक्यं लिखत —


पदानि : [कश्चित्, काचित्, किञ्चित्, कुत्रचित्, कदाचित्]


(क) बालकः गच्छति । → कश्चित् बालकः गच्छति ।

(ख) बालिका गच्छति । → __________________________

(ग) फलं खादतु । → __________________________

(घ) लेखनी लुप्ता । → __________________________

(ङ) सः आगच्छेत् । → __________________________


उत्तरम् :


(क) बालकः गच्छति । → कश्चित् बालकः गच्छति ।

(ख) बालिका गच्छति । → काचित् बालिका गच्छति ।

(ग) फलं खादतु । → किञ्चित् फलं खादतु ।

(घ) लेखनी लुप्ता । → लेखनी  कुत्रचित् लुप्ता ।

(ङ) सः आगच्छेत् । →सः  कदाचित् आगच्छेत् ।


No comments:

Post a Comment

Class 9 Sanskrit Sharada Chapter 4 न खलु वयस्तेजसो हेतुः Question Answers & Solutions

  अभ्यासः (अभ्यासाद् जायते सिद्धिः) १. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत — अनुवाद टूल और संसाधन (क) खुदीरामस्य जन्म कुत्...