मनःपूतं समाचरेत्
अभ्यास-प्रश्नोत्तराणि
शारदा | कक्षा ९ | षष्ठः पाठः
सम्पूर्ण प्रश्नोत्तराणि
पाठ-परिचयः
यह पाठ विभिन्न सुभाषितों का संग्रह है। इन सुभाषितों में सदाचार, सत्यवचन, पुरुषार्थ, धर्म, अभ्यास तथा विवेकपूर्ण जीवन के विषय में शिक्षाएँ दी गई हैं। पाठ का मुख्य संदेश है — मन, वचन और कर्म की शुद्धि के साथ आचरण करना।
अभ्यास १ — पूर्णवाक्येन उत्तराणि
(क) लोकः कस्य आचरणम् अनुकरोति?
उत्तरम् —
लोकः श्रेष्ठस्य आचरणम् अनुकरोति।
हिन्दी अर्थ —
लोग श्रेष्ठ पुरुष के आचरण का अनुकरण करते हैं।
(ख) कीदृशी वाणी वक्तव्या?
उत्तरम् —
सत्यपूतां वाणीं वक्तव्या।
हिन्दी अर्थ —
सत्य से पवित्र वाणी बोलनी चाहिए।
(ग) लक्ष्मीः कम् उपैति?
उत्तरम् —
लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति।
हिन्दी अर्थ —
लक्ष्मी परिश्रमी एवं वीर पुरुष के पास आती है।
(घ) उत्तमजनाः कार्यं प्रारभ्य किं न कुर्वन्ति?
उत्तरम् —
उत्तमजनाः कार्यं प्रारभ्य विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः अपि कार्यं न परित्यजन्ति।
हिन्दी अर्थ —
श्रेष्ठ लोग बाधाओं के आने पर भी कार्य नहीं छोड़ते।
(ङ) धर्मस्य लक्षणानि कानि?
उत्तरम् —
धृतिः, क्षमा, दमः, अस्तेयम्, शौचम्, इन्द्रियनिग्रहः, धीः, विद्या, सत्यम्, अक्रोधः — एतानि धर्मस्य दश लक्षणानि सन्ति।
हिन्दी अर्थ —
धैर्य, क्षमा, इन्द्रिय-दमन, चोरी न करना, पवित्रता, इन्द्रिय-निग्रह, बुद्धि, विद्या, सत्य तथा अक्रोध — ये धर्म के दस लक्षण हैं।
(च) सकलाः कलाः कस्मात् सिध्यन्ति?
उत्तरम् —
सकलाः कलाः अभ्यासात् सिध्यन्ति।
हिन्दी अर्थ —
सभी कलाएँ अभ्यास से सिद्ध होती हैं।
(छ) सम्पदः कं वृणते?
उत्तरम् —
सम्पदः विमृश्यकारिणं गुणलुब्धाः स्वयमेव वृणते।
हिन्दी अर्थ —
सम्पत्तियाँ विचारपूर्वक कार्य करने वाले गुणी व्यक्ति को स्वयं चुनती हैं।
अभ्यास २ — रिक्तस्थानपूर्तिः
(क) .............. परमापदां पदम्।
उत्तरम् —
अविवेकः परमापदां पदम्।
(ख) सन्तः .............. अन्यतरद् भजन्ते।
उत्तरम् —
सन्तः परीक्ष्य अन्यतरद् भजन्ते।
(ग) दैवं निहत्य कुरु .............. आत्मशक्त्या।
उत्तरम् —
दैवं निहत्य कुरु पौरुषम् आत्मशक्त्या।
(घ) स यत् .............. कुरुते।
उत्तरम् —
स यत् प्रमाणं कुरुते।
(ङ) धीर्विद्या सत्यमक्रोधो .............. धर्मलक्षणम्।
उत्तरम् —
धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम्।
अभ्यास ३ — प्रश्ननिर्माणम्
(क) नीचैः विघ्नभयेन कार्यं न प्रारभ्यते।
उत्तरम् —
के विघ्नभयेन कार्यं न प्रारभ्यते?
(ख) सकलाः कलाः अभ्यासात् सिध्यन्ति।
उत्तरम् —
सकलाः कलाः कस्मात् सिध्यन्ति?
(ग) वस्त्रपूतं जलं पिबेत्।
उत्तरम् —
कीदृशं जलं पिबेत्?
(घ) लक्ष्मीः पुरुषसिंहम् उपैति।
उत्तरम् —
लक्ष्मीः कम् उपैति?
(ङ) सन्तः परीक्ष्य अन्यतरद् भजन्ते।
उत्तरम् —
सन्तः कथं अन्यतरद् भजन्ते?
(च) क्रियां सहसा न विदधीत।
उत्तरम् —
किं सहसा न विदधीत?
अभ्यास ४ — श्लोकाधारित-प्रश्नोत्तराणि
श्लोकः
दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत्।
सत्यपूतां वदेत् वाचं मनःपूतं समाचरेत्॥
(क) अस्मिन् श्लोके प्रथमं क्रियापदं किम्?
उत्तरम् —
अस्मिन् श्लोके प्रथमं क्रियापदं "न्यसेत्" अस्ति।
(ख) कं न्यसेत्?
उत्तरम् —
पादं न्यसेत्।
(ग) कीदृशं पादं न्यसेत्?
उत्तरम् —
दृष्टिपूतं पादं न्यसेत्।
(घ) द्वितीयं किं क्रियापदम् अस्ति?
उत्तरम् —
द्वितीयं क्रियापदं "पिबेत्" अस्ति।
(ङ) किं पिबेत्?
उत्तरम् —
जलं पिबेत्।
(च) कीदृशं जलं पिबेत्?
उत्तरम् —
वस्त्रपूतं जलं पिबेत्।
(छ) तृतीयं किं क्रियापदम् अस्ति?
उत्तरम् —
तृतीयं क्रियापदं "वदेत्" अस्ति।
(ज) कां वदेत्?
उत्तरम् —
वाचं वदेत्।
(झ) कीदृशीं वाणीं वदेत्?
उत्तरम् —
सत्यपूतां वाणीं वदेत्।
(ञ) चतुर्थं किं क्रियापदम् अस्ति?
उत्तरम् —
चतुर्थं क्रियापदं "समाचरेत्" अस्ति।
(ट) कथं समाचरेत्?
उत्तरम् —
मनःपूतं समाचरेत्।
अभ्यास ५ — मञ्जूषापूर्तिः
मञ्जूषा — बुद्धिः, लक्ष्यं, पुरुषस्य, अभिप्रायं, धीराः, नूतनम्
(क) श्लोक ६ का भावार्थ
लक्ष्मीः प्रयत्नशीलस्य पराक्रमिणः पुरुषस्य समीपं स्वयम् आगच्छति।
ये पौरुषेण परिस्थितिम् अतिक्रम्य कार्याणि साधयन्ति ते एव धीराः।
प्रयत्नं कृत्वा अपि यदि लक्ष्यं न प्राप्तं तर्हि तत्र दोषः नास्ति।
(ख) श्लोक ७ का भावार्थ
तथैव नूतनम् अस्ति इति कारणेन दोषरहितं भवेत् इत्यपि नियमः नास्ति।
येषां बुद्धिः पक्वा अस्ति ते परीक्षण-निरीक्षणानन्तरम् एव उत्तमं स्वीकुर्वन्ति।
अज्ञानाः अन्येषाम् अभिप्रायं श्रुत्वा तदनुसारेण प्रवर्तन्ते।
अभ्यास ६ — अन्वयपूर्तिः
(क)
सर्वाः क्रियाः अभ्यासेन सिध्यन्ति।
सकलाः कलाः अभ्यासात् सिध्यन्ति।
ध्यानमौनादि अपि अभ्यासात् सिध्यति।
अभ्यासस्य दुष्करं किम्?
(ख)
श्रेष्ठः यत् यत् आचरति इतरः जनः तत् तत् एव आचरति।
सः यत् प्रमाणं कुरुते, लोकः तत् अनुवर्तते।
अभ्यास ७ — मेलनम्
श्लोकांशः | स्रोतोग्रन्थः |
पुराणमित्येव न साधु सर्वम् | मालविकाग्निमित्रम् |
प्रारभ्य चोत्तमजनाः न परित्यजन्ति | नीतिशतकम् |
यद्यदाचरति श्रेष्ठः | श्रीमद्भगवद्गीता |
धृतिः क्षमा दमोऽस्तेयम् | मनुस्मृतिः |
उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः | पञ्चतन्त्रम् |
अभ्यास ८ — सन्धिविच्छेदः
(क)
दमोऽस्तेयम् = दमः + अस्तेयम्
(ख)
पुराणमित्येव = पुराणम् + इति + एव
(ग)
पुनरपि = पुनः + अपि
(घ)
चोत्तमजनाः = च + उत्तमजनाः
(ङ)
विघ्नविहताः = विघ्नैः + विहताः
(च)
लोकस्तदनुवर्तते = लोकः + तत् + अनुवर्तते
(छ)
परीक्ष्यान्यतरद्भजन्ते = परीक्ष्य + अन्यतरत् + भजन्तेअभ्यास ९ — समस्तपदानि
विग्रहवाक्यम् | समस्तपदम् |
विघ्नैः विहताः | विघ्नविहताः |
वस्त्रेण पूतं जलम् | वस्त्रपूतम् |
पुरुषः सिंहः इव | पुरुषसिंहम् |
उत्तमाः जनाः | उत्तमजनाः |
न विवेकः | अविवेकः |
प्रमुख शब्दार्थाः
शब्दः
हिन्दी अर्थ
अविवेकः
मूर्खता, बिना सोचे कार्य करना
पौरुषम्
पुरुषार्थ, परिश्रम
उद्योगिन्
परिश्रमी
विघ्नः
बाधा
प्रमाणम्
आदर्श, मानक
धृतिः
धैर्य
अस्तेयम्
चोरी न करना
अक्रोधः
क्रोध का अभाव
विमृश्यकारी
सोच-समझकर कार्य करने वाला
मनःपूतम्
शुद्ध मन से किया गया कार्य
पाठ का मुख्य संदेश:
"दृष्टिपूतं न्यसेत् पादं, सत्यपूतां वदेत् वाचम्, मनःपूतं समाचरेत्" — अर्थात् जीवन में प्रत्येक कार्य सोच-समझकर, सत्यपूर्वक और शुद्ध मन से करना चाहिए।
शब्दः | हिन्दी अर्थ |
अविवेकः | मूर्खता, बिना सोचे कार्य करना |
पौरुषम् | पुरुषार्थ, परिश्रम |
उद्योगिन् | परिश्रमी |
विघ्नः | बाधा |
प्रमाणम् | आदर्श, मानक |
धृतिः | धैर्य |
अस्तेयम् | चोरी न करना |
अक्रोधः | क्रोध का अभाव |
विमृश्यकारी | सोच-समझकर कार्य करने वाला |
मनःपूतम् | शुद्ध मन से किया गया कार्य |
"दृष्टिपूतं न्यसेत् पादं, सत्यपूतां वदेत् वाचम्, मनःपूतं समाचरेत्" — अर्थात् जीवन में प्रत्येक कार्य सोच-समझकर, सत्यपूर्वक और शुद्ध मन से करना चाहिए।