9th Chapter 4: विद्यया भान्ति सद्गुणाः अभ्यास कार्य
1…अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत
(क) पाटलिपुत्रनामधेयं नगरं कुत्रास्ति ?
(ख) पाटलिपुत्रनगरस्य राजा कः आसीत् ?
(ग) सर्वस्य लोचनं किं भवति ?
(घ) हंसमध्ये कः न शोभते ?
(ङ) किं विहाय पुरुषार्थः विधेयः ?
(च) कः राजपुत्रान् शिक्षयितुं स्वीकृतवान् ?
(छ) महद्भिः सुप्रतिष्ठितः देवत्वं कः याति ?
उत्तर…..(क) भागीरथीतीरे,(ख) सुदर्शनः, (ग) शास्त्रम् ,(घ) बकः ,(ङ) दैवमालस्यम् ,(च) विष्णुशर्मा, (छ) अश्म:
2…अधोलिखितानां प्रश्नानामुत्तराणि पूर्णवाक्येन लिखत –
(क) पाटलिपुत्रे कीदृशः नरपतिः आसीत् ?
(ख) शास्त्रं किं करोति ?
(ग) के के अनर्थाय भवन्ति ?
(घ) विष्णुशर्मा तान् कथं शिक्षितान् अकरोत् ?
(ङ) कस्य जन्म सफलं विद्यते ?
(च) कीटः कथं सतां शिरः आरोहति ?
(छ) राजाः निजपुत्रान् विष्णुशर्मणः करे कथं समर्पितवान् ?
उत्तर…
(क) पाटलिपुत्रे सर्वस्वामिगुणोपतः नरपतिः आसीत्।
(ख) शास्त्रं अनेकषाम् संशयानां दूरम् करोति अप्रत्यक्षं अर्थम् च प्रकाशयति।
(ग) यौवनं,धनसंपत्ति, प्रभुत्वं अविवेकिता च अनर्थाय भवन्ति ।
(घ) विष्णुशर्मा तान् पशु-पक्षि-जन्तूनां मनोरञ्जकाभिः, प्रेरणाप्रदाभिश्च कथाभिः शिक्षितवान् अकरोत्।
(ङ) येन जातेन वंशः समुन्नतिम् याति , तस्य जन्म सफलं विद्यते।
(च) कीटः सुमनः संगात् सतां शिरः आरोहति।
(छ) राजाः निजपुत्रान् विष्णुशर्मणः करे बहुमानपुरःसरं समर्पितवान्।
अधोलिखितेषु वाक्येषु स्थूलपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत
3…स्थूलपदानि आधारीकृत्य प्रश्ननिर्माणम्
(क) अविवेकता अपि अनर्थाय ।
(ख) राजा पुत्राणाम् आचारहीनतया उद्विग्नमनाः आसीत्।
(ग) एकः चन्द्रः तमः हन्ति ।
(घ) विद्याहीनाः पुत्राः न शोभन्ते।
(ङ) राजा पण्डितसभां कारितवान् ।
(च) हितोपदेशः नीतिकथानां सङ्कलनमेव ।
(छ) विद्यया बालकस्य पुर्नजन्म भवति ।
उत्तर…
(क)का अपि अनर्थाय?
(ख) राजा केषाम् आचारहीनतया उद्विग्नमनाः आसीत्?
(ग) एकः चन्द्रः किम् हन्ति?
(घ) कीदृशाः पुत्राः न शोभन्ते?
(ङ) राजा काम कारितवान्?
(च) कः नीतिकथानां सङ्कलनमेव?
(छ) कया बालकस्य पुर्नजन्म भवति?
4.अधोलिखितप्रश्नान् यथानिर्देशम् उत्तरत –
(क) ‘तत् कथम् इदानीम् एते मम पुत्राः गुणवन्तः क्रियन्ताम्।’ अस्मिन् वाक्ये ‘पुत्राः’ इति पदस्य किं विशेषणपदं प्रयुक्तम् ?
उत्तर… एते मम्
(ख) ‘अत्र तु दैवम् कारणमिति न उचितम्’ अस्मिन् वाक्ये ‘भाग्यम्’ इत्यर्थे किं पदं प्रयुक्तम् ?
उत्तर… दैवं
(ग) ‘तत्र सर्वस्वामिगुणोपेतः सुदर्शनः नाम नरपतिः आसीत्।’ अस्मिन् वाक्ये किं क्रियापदम् अस्ति ?
उत्तर.. आसीत्।
(घ) ‘अत्रान्तरे विष्णुशर्मा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञः बृहस्पतिः इव अवदत् ।’ अत्र ‘अवदत्’ इति क्रियापदस्य किं कर्तृपदं प्रयुक्तम् ?
उत्तर…विष्णुशर्मा
(ङ) ‘एकश्चन्द्रस्तमो हन्ति।’ अस्मिन् वाक्ये एकः इति पदस्य किं विशेष्य पदम् प्रयुक्तम् ?
उत्तर…चन्द्रः
अधोलिखितशब्दानां पर्यायद्वयं प्रदत्तशब्देभ्यः चित्वा लिखत –
(क) भागीरथी….गङ्गा, कालिन्दी, जाह्नवी ।
(ख) नरपतिः …..भूपतिः, नृपः, सुरपतिः ।
(ग) लोचनम् ……मोचनम्, नयनम्, अक्षि।
(घ) चन्द्रः….हिमकरः, दिवाकरः, निशापतिः ।
(ङ) सुमनम् ….प्रसूनम्, पुष्पम्, स्रजम् ।
उत्तर….
क) भागीरथी….गङ्गा, जाह्नवी ।
(ख) नरपतिः …..भूपतिः, नृपः ।
(ग) लोचनम् …… नयनम्, अक्षि।
(घ) चन्द्रः….हिमकरः, निशापतिः ।
(ङ) सुमनम् ….प्रसूनम्, पुष्पम् ।
6…अधोलिखितपदानां समक्षं तद्विपरीतार्थकं पदं लिखत-
यथा-
यौवनम्………………………वार्धक्यम्
(क) समुन्नतिम्……………(i) सुमार्गगामिनः
(ख) अनधिगतशास्त्राः …………(ii) ज्योतिः
(ग) उन्मार्गगामिनः ………….(iii) अवनतिम्
(घ) तमः ……………..(iv) मित्रम्
(ङ) विद्वान् …………………(v) अधिगतशास्त्राः
(च) शत्रुः …………….(vi) मूर्खः
उत्तर….
यौवनम्………………………वार्धक्यम्
(क) समुन्नतिम्…………… अवनतिम्
(ख) अनधिगतशास्त्राः …………अधिगतशास्त्राः
(ग) उन्मार्गगामिनः ………….सुमार्गगामिनः
(घ) तमः ……………..ज्योतिः
(ङ) विद्वान् …………………मूर्खः
(च) शत्रुः …………….मित्रम्
7..अधोलिखितपङ्क्त्योः आशयेषु शुद्धम् आशयम् () इति चिह्नी कुरुत…
(क) स जातो येन जातेन याति वंशः समुन्नतिम् ।
(i) यस्य जन्ममात्रेण वंशः समुन्नतिं याति ।
(ii) यस्य जन्मनः पश्चात् वंशः समुन्नतिं याति ।
(iii) यस्य गुणैः कर्मभिः च वंशः सर्वविधाम् उन्नतिं करोति ।
उत्तर..(iii) यस्य गुणैः कर्मभिः च वंशः सर्वविधाम् उन्नतिं करोति ।
(ख) अस्ति कश्चित् नीतिशास्त्रोपदेशेन पुनर्जन्म कारयितुं समर्थः ?
(i) अत्र कः एवम्भूतः विद्वान् यः नीतिशिक्षया मूर्खान् पुत्रान् व्यवहारे निपुणान् कर्तुं शक्नोति ?
(ii) विष्णुशर्मा एव नीतिशास्त्रोपदेशेन पुनर्जन्म कारयति ।
(iii) कोऽपि मूर्खान् राजपुत्रान् नीतिशास्त्रस्य उपदेशेन व्यवहारकुशलान् सभ्यान् च कर्तुं न शक्नोति ।
उत्तर…(i) अत्र कः एवम्भूतः विद्वान् यः नीतिशिक्षया मूर्खान् पुत्रान् व्यवहारे निपुणान् कर्तुं शक्नोति
8..अधोदत्ते अन्वये उचितकर्तृपदाभ्यां रिक्तस्थानपूर्ति कुरुत –
…अपि सुमनःसङ्गात् सतां शिरः आरोहति, महद्भिः सुप्रतिष्ठितः ……….अपि देवत्वं याति ।
उत्तर………कीटः …अपि सुमनःसङ्गात् सतां शिरः आरोहति, महद्भिः सुप्रतिष्ठितः ……अश्मः ….अपि देवत्वं याति ।
१. कथाक्रमानुसारम् अधोलिखितानि वाक्यानि पुनः लिखत-
(क) राजा निजपुत्रान् विष्णुशर्मणः करे समर्पितवान्।
(ख) राजा पण्डितसभां कारितवान् ।
(ग) विष्णुशर्मा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञः बृहस्पतिः इव आसीत्।
(घ) भोः भोः पण्डिताः ! किं कश्चित् विद्वान् अस्ति यः मम पुत्रान् शिक्षयितुं समर्थः ।
(ङ) भागीरथी तीरे पाटलिपुत्रनामधेयं नगरम् आसीत् ।
(च) राज्ञः पुत्राः अनधिगतशास्त्राः नित्यमुन्मार्गगामिनः आचारहीनाश्च आसन् ।
(छ) पाटलिपुत्रे सुदर्शनः नाम सर्वगुणोपतः राजा आसीत् ।
उत्तर..
(ङ) भागीरथी तीरे पाटलिपुत्रनामधेयं नगरम् आसीत् ।
(छ) पाटलिपुत्रे सुदर्शनः नाम सर्वगुणोपतः राजा आसीत् ।
(च) राज्ञः पुत्राः अनधिगतशास्त्राः नित्यमुन्मार्गगामिनः आचारहीनाश्च आसन् ।
(ख) राजा पण्डितसभां कारितवान् ।
(घ) भोः भोः पण्डिताः ! किं कश्चित् विद्वान् अस्ति यः मम पुत्रान् शिक्षयितुं समर्थः ।
(ग) विष्णुशर्मा महापण्डितः सकलनीतिशास्त्रतत्त्वज्ञः बृहस्पतिः इव आसीत्।
(क) राजा निजपुत्रान् विष्णुशर्मणः करे समर्पितवान्।
No comments:
Post a Comment