कक्षा-8th अभ्यास कार्यं
पाठ:-4 प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
NCERT Class 8 Sanskrit Chapter 4 Question Answer Solutions September 2, 2025 by Sastry CBSE
Students rely on NCERT Solutions for Class 8 Sanskrit and Class 8th Sanskrit Deepakam Chapter 4 Question Answer प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः to clarify their doubts after class.
Sanskrit Class 8 Chapter 4 Question Answer प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
Class 8 Sanskrit Chapter 4 NCERT Solutions प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
कक्षा 8 संस्कृत पाठ 4 के प्रश्न उत्तर प्रणम्यो देशभक्तोऽयं गोपबन्धुर्महामनाः
अभ्यासात् जायते सिद्धिः (पृष्ठ 44–46)
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) समाज-दिनपत्रिकायाः प्रतिष्ठाता क: ?
उत्तराणि :
गोपबन्धुः
(ख) गोपबन्धुः कस्मै स्वभोजनं दत्तवान् ?
उत्तराणि :
भिक्षुकाय
(ग) मरणासन्नः कः आसीत्?
उत्तराणि :
पुत्रः
(घ) गोपबन्धुः केन उपाधिना सम्मानितः अभवत्?
उत्तराणि :
‘उत्कलमणि’ इत्यनेन
(ङ) गोपबन्धुः कति वर्षाणि कारावासं प्राप्तवान्?
उत्तराणि :
वर्षद्वयम्।
२. एकवाक्येन उत्तरं लिखत-
(क) गोपबन्धुः किमर्थम् अश्रुपूर्णनयनः अभवत्?
उत्तराणि :
गोपबन्धुः भिक्षुकं दृष्ट्वा अश्रुपूर्णनयनः अभवत्।
(ख) कीदृशं पुत्रं विहाय गोपबन्धुः समाजसेवाम् अकरोत् ?
उत्तराणि :
मरणासन्नं पुत्रं विहाय गोपबन्धुः समाज- सेवाम् अकरोत्।
(ग) गोपबन्धोः कृते उत्कलमणिः इति उपाधिः किमर्थं प्रदत्त:?
उत्तराणि :
गोपबन्धोः कृते उत्कलमणिः इति उपाधिः तस्य असीम त्यागाय प्रदत्तः ।
(घ) गोपबन्धुः कुत्र जन्म लब्धवान् ?
उत्तराणि :
गोपबन्धुः उडीशाप्रान्तस्य पुरीजनपदस्य सुआण्डोग्रामे जन्म लब्धवान्।
(ङ) गोपबन्धुः सर्वदा केषाम् उपयोगं कृतवान्?
उत्तराणि :
गोपबन्धुः सर्वदा स्वदेशस्य वस्त्राणाम् उपयोगम् अकरोत्।
३. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत-
उत्तराणि :
(क) गोपबन्धुः दरिद्राणां सेवाम् अकरोत् ।
(ख) गोपबन्धुः भिक्षुकाय सुस्वादूनि व्यञ्जनानि अयच्छत्।
(ग) गोपबन्धुः रोगिणां सहायताम् अकरोत् ।
(घ) गोपबन्धवे स्वदेशवस्त्राणि रोचन्ते स्म ।
(ङ) गोपबन्धुः अध्यापकेषु अन्यतमः आसीत् ।
४. चित्रं दृष्ट्वा पञ्च वाक्यानि रचयत-
(क) ______________
(ख) ______________
(ग) ______________
(घ) ______________
(ङ) ______________
उत्तराणि :
( क ) एषः चिकित्सालयः अस्ति ।
(ख) अत्र अस्वस्थाः जनाः आगच्छन्ति।
(ग) एक : वृद्ध : निजपुत्रं चिकित्सार्थं नयति ।
(घ) बालः ज्वरेण पीडितः अस्ति ।
(ङ) प्रकोष्ठे चिकित्सकः अस्ति ।
५. समुचितेन पदेन श्लोकं पूरयत-
(क) ______________ मम लीयतां तनुः।
उत्तराणि :
स्वदेशभूमौ मम लीयतां तनुः ।
(ख) उत्कलमणिरित्याख्यः प्रसिद्धो ______________
उत्तराणि :
उत्कलमणिरित्याख्यः प्रसिद्धो लोकसेवकः ।
(ग) स्वदेशलोकास्तदनु ______________ नु
उत्तराणि :
स्वदेशलोकास्तदनु प्रयान्तु नु
(घ) स्वराज्यमार्गे यदि ______________
उत्तराणि :
स्वराज्यमार्गे यदि गर्त्तमालिका,
(ङ) ______________ परिपूरितास्तु सा
उत्तराणि :
ममास्थिमांसैः परिपूरितास्तु सा
६. उदाहरणानुसारं क्रियापदं स्त्रीलिङ्गे परिवर्तयत-
यथा- गतवान् – गतवती
(क) प्राप्तवान् – ______________
(ख) उपविष्टवान् – ______________
(ग) भुक्तवान् – ______________
(घ) कृतवान् – ______________
(ङ) गृहीतवान् – ______________
उत्तराणि :
(क) प्राप्तवती
(ख) उपविष्टवती
(ग) भुक्तवती
(घ) कृतवती
(ङ) गृहीतवती
७. समुचितेन पदेन सह स्तम्भौ मेलयत-उत्तराणि :
८. घटनाक्रमेण वाक्यानि पुनः लिखत-
(क) भिक्षुकञ्च तद्भोजितवान्।
(ख) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत् ।
(घ) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ङ) दिनत्रयात् किमपि न भुक्तम् ।
(क) ______________
(ख) ______________
(ग) ______________
(घ) ______________
(ङ) ______________
उत्तराणि :
(क) अतिथयो हस्तपादं क्षालयित्वा आसनेषु उपविष्टवन्तः।
(ख) दिनत्रयात् किमपि न भुक्तम् ।
(ग) गोपबन्धुः अश्रुपूर्णनयनोऽभवत्।
(घ) भिक्षुकञ्च तद्भोजितवान्।
(ङ) प्रफुल्लचन्द्ररायः गोपबन्धुम् उत्कलमणिः इति उपाधिना सम्मानितवान्।
No comments:
Post a Comment