Sunday, May 31, 2026

शारदा | कक्षा ९ | पञ्चमः पाठः एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी Class 9 Sanskrit sharada chapter 5 question answer एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी

 
शारदा | कक्षा ९ | पञ्चमः पाठः

Sanskrit शारदा Class 9 Question Answer Chapter 4 Sharada CBSE “न खलु वयस्तेजसो हेतुः Class 9 Question Answer

 Sanskrit शारदा Class 9 Question Answer Chapter 4 Sharada CBSE

पाठ-परिचयः

“न खलु वयस्तेजसो हेतुः” इत्यस्य अर्थः अस्ति – तेजस्विता अथवा वीरता के लिए आयु कारण नहीं होती। बालकः अपि महान् वीरः भवितुं शक्नोति।

खुदीरामः भारतस्य स्वतन्त्रतासंग्रामस्य एकः तेजस्वी बालक्रान्तिवीरः हुतात्मा च आसीत्।


1. पूर्णवाक्येन उत्तराणि लिखत

(क) खुदीरामस्य जन्म कुत्र अभवत्?

उत्तरम् – खुदीरामस्य जन्म बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनीग्रामे १८८९ तमे वर्षे दिसम्बरमासस्य तृतीये दिनाङ्के अभवत्।

(ख) खुदीरामः किमर्थं व्यथितः भवति स्म?

उत्तरम् – खुदीरामः देशवासिषु जायमानान् आङ्ग्लानाम् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।

(ग) सत्येन्द्रनाथः किम् उपदिष्टवान्?

उत्तरम् – सत्येन्द्रनाथः उपदिष्टवान् यत् क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारावत् तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत्।

(घ) खुदीरामः कदा पर्यन्तं पादत्राणं न धरिष्यामि इति प्रतिज्ञातवान्?

उत्तरम् – खुदीरामः प्रतिज्ञातवान् यत् यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि।

(ङ) किमर्थं न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः?

उत्तरम् – मृत्युदण्डं श्रुत्वा अपि खुदीरामस्य मुखे प्रसन्नता दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः च चकिताः अभवन्।


2. सत्यम् / असत्यम्

(क) देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति।

उत्तरम् – सत्यम्

(ख) निर्दयः किङ्ग्ज़फोर्ड् बालान् अपि दण्डयति स्म।

उत्तरम् – सत्यम्

(ग) खुदीरामस्य आक्रमणेन किङ्ग्ज़फोर्ड् मृतः।

उत्तरम् – असत्यम्

(घ) खुदीरामः किङ्ग्ज़फोर्ड् महोदयस्य रथस्य उपरि विस्फोटकं क्षिप्तवान्।

उत्तरम् – सत्यम्

(ङ) खुदीरामः बालानां सङ्घटनं कृत्वा पदयात्राम् आयोजयति स्म।

उत्तरम् – सत्यम्

3. संवत्सराणाम् अङ्कैः सह मेलनम्

संस्कृत वर्षनाम

अङ्कः

सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम्

1947

अष्टाधिक-नवदशशततमं वर्षम्

1908

पञ्चाशदुत्तर-नवदशशततमं वर्षम्

1950

पञ्चाधिक-नवदशशततमं वर्षम्

1905

नवाशीत्यधिक-अष्टादशशततमं वर्षम्

1889

उत्तराणि

(क) सप्तचत्वारिंशदधिक-नवदशशततमं वर्षम् = 1947

(ख) अष्टाधिक-नवदशशततमं वर्षम् = 1908

(ग) पञ्चाशदुत्तर-नवदशशततमं वर्षम् = 1950

(घ) पञ्चाधिक-नवदशशततमं वर्षम् = 1905

(ङ) नवाशीत्यधिक-अष्टादशशततमं वर्षम् = 1889


4. चित्रं दृष्ट्वा पञ्च वाक्यानि लिखत

  1. एकः बालकः साइकिलम् चालयति।

  2. बालकाः उद्याने कन्दुकेन क्रीडन्ति।

  3. एका बालिका प्रतिबन्धितायानेन उपविष्टा क्रीडां पश्यति।

  4. दूरे पर्वताः सन्ति, तेभ्यः निर्झरः प्रवहति।

  5. आकाशे सूर्यः प्रकाशते, खगाः च उड्डीयन्ते।


5. सन्धिच्छेदं कुरुत

(क) इत्यादयः

उत्तरम् – इति + आदयः

(ख) सर्वेऽपि

उत्तरम् – सर्वे + अपि

(ग) कश्चित्

उत्तरम् – कः + चित्

(घ) प्रत्येकम्

उत्तरम् – प्रति + एकम्

(ङ) वयस्तेजसः

उत्तरम् – वयः + तेजसः

(च) अचिरादेव

उत्तरम् – अचिरात् + एव


6. समस्तपदानि

विग्रहः

समस्तपदम्

देशस्य भक्ताः

देशभक्ताः

बालः च क्रान्तिवीरः च

बालक्रान्तिवीरः

वज्रेण सदृशम्

वज्रसदृशम्

असेः धारा

असिधारा

मृत्युः एव दण्डः

मृत्युदण्डः

न साधारणः

असाधारणः

निर्गता दया यस्मात् सः

निर्दयः


7. कालपरिवर्तनम्

(क) वन्दे मातरम् इत्यादयः घोषणाः भवन्ति स्म। (लङ्-लकारः)

उत्तरम् – वन्दे मातरम् इत्यादयः घोषणाः अभवन्।

(ख) सत्येन्द्रनाथः खुदीरामम् उपादिशत्। (क्तवतु-प्रत्ययः)

उत्तरम् – सत्येन्द्रनाथः खुदीरामम् उपदिष्टवान्।

(ग) सः नवमीं कक्षां पूर्णां कर्तुं न शक्तवान्। (लङ्-लकारः)

उत्तरम् – सः नवमीं कक्षां पूर्णां कर्तुं न अशक्नोत्।

(घ) क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कम् अजनयन्। (स्म)

उत्तरम् – क्रान्तिवीराः आङ्ग्लानां मनसि आतङ्कं जनयन्ति स्म।

(ङ) प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं कृतवान्। (लङ्-लकारः)

उत्तरम् – प्रफुल्लः भुशुण्ड्या गोलिकाप्रहारं अकरोत्।


8. चित्-प्रत्ययान्तपदानि

(क) बालकः गच्छति।

उत्तरम् – कश्चित् बालकः गच्छति।

(ख) बालिका गच्छति।

उत्तरम् – काचित् बालिका गच्छति।

(ग) फलं खादतु।

उत्तरम् – किञ्चित् फलं खादतु।

(घ) लेखनी लुप्ता।

उत्तरम् – लेखनी कुत्रचित् लुप्ता।

(ङ) सः आगच्छेत्।

उत्तरम् – सः कदाचित् आगच्छेत्।


शब्दार्थाः

संस्कृत शब्दः

हिन्दी अर्थ

अधिवक्तृणाम्

वकीलों के

असाधारणः

असामान्य

आचरितवन्तः

मनाये

आतङ्कम्

डर

आन्दोलनम्

आन्दोलन

उद्बन्धनम्

फाँसी

कदाचित्

कभी

चकितः

चौंका हुआ

दिवम्

स्वर्ग

निर्दयः

दया रहित

प्रतीकारयत्नः

प्रतिरोध का प्रयास

भुशुण्डी

बन्दूक

व्यथितः

दुःखी, चिन्तित

विस्फोटकम्

बम / विस्फोटक सामग्री

संत्रस्तः

आतंकित, भयभीत


मुख्य सन्देश

“न खलु वयस्तेजसो हेतुः”

अर्थात् वीरता, साहस और तेजस्विता के लिए आयु आवश्यक नहीं होती। खुदीराम बोस ने अल्पायु में ही अद्भुत देशभक्ति, साहस और बलिदान का परिचय देकर यह सिद्ध कर दिया कि महान् कार्य करने के लिए बड़ी आयु नहीं, बल्कि दृढ़ संकल्प और राष्ट्रप्रेम आवश्यक है।



Sanskrit शारदा Class 9 Question Answer Chapter 3 Sharada CBSE

 Sanskrit शारदा Class 9 Question Answer Chapter 3 Sharada CBSE
कक्षा 9 संस्कृत (शारदा) – पाठ 3
अभ्यास-प्रश्नोत्तराणि

आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः


1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(क) मातामही कस्य कथां श्रावितवती?
उत्तरम् – मातामही नामदेवमहाराजस्य कथां श्रावितवती।

(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्?
उत्तरम् – नामदेवस्य गुरुः विसोबा नामदेवम् अध्यापितवान् यत् ईश्वरः न केवलं मन्दिरे भवति, अपितु सर्वेषु भूतेषु निवसति।

(ग) नामदेवः कया भावनया धावनं कृतवान्?
उत्तरम् – नामदेवः करुणया धावनं कृतवान्।

(घ) बालकयोः मुखे किमर्थं म्लाने संजाते?
उत्तरम् – अपराधभावनया बालकयोः मुखे म्लाने संजाते।

(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ?
उत्तरम् – तौ सङ्कल्पं कृतवन्तौ यत् कदापि कस्यापि पीडां न जनयिष्यतः।

(च) ‘तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ’ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः?
उत्तरम् – ‘तम्’ इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः।

(छ) कपिलः माधवी च कुत्र गतवन्तौ?
उत्तरम् – कपिलः माधवी च मातुलगृहं गतवन्तौ।

(ज) ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’ इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति?
उत्तरम् – ‘तौ’ इति शब्दः द्वितीया विभक्तौ द्विवचने अस्ति।


2. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत

(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति।
उत्तरम् – नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।

(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति।
उत्तरम् – नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।

(ग) गुरुः विसोबा तम् अध्यापयति।
उत्तरम् – गुरुः विसोबा तम् अध्यापितवान्।

(घ) अहं शृणोमि।
उत्तरम् – अहं शृतवान्। (स्त्रीलिङ्गे – शृतवती)

(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
उत्तरम् – सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।

(च) नामदेवः शुनकस्य पृष्ठे अनुधावति।
उत्तरम् – नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।


3. कः/का – कं/कां प्रति कथयति

कथनम्वक्ताश्रोता
कथां श्रोतुम् इच्छतः वा?मातामहीकपिलः, माधवी
अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान्।माधवीमातामही
किं देवेन सह अपि मित्रता सम्भवति?कपिलःमातामही
अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु।विसोबानामदेवः
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।नामदेवःपाण्डुरङ्गः
धिक् शुनकम्।कपिलःमातामही
नामदेवस्य कियत् दुःखं जातं स्यात् खलु?माधवीमातामही
किं घृतपात्रम् आधृत्य?कपिलः, माधवीमातामही
अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति।कपिलःमातामही
उत्तीर्णः भवान् परीक्षाम्।पाण्डुरङ्गःनामदेवः

4. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणम्

(क) देवः नामदेवं परितः भवति स्म।
प्रश्नः – देवः कं परितः भवति स्म?

(ख) ईश्वरः सर्वेषु भूतेषु निवसति।
प्रश्नः – ईश्वरः केषु निवसति?

(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
प्रश्नः – शुनकः आगत्य कुत्र रोटिकां धृत्वा धावितवान्?

(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
प्रश्नः – शुनकस्य स्थाने कः आविर्भूतवान्?

(ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।
प्रश्नः – आत्मवत् सर्वभूतेषु यः पश्यति सः कः?


5. घटनाक्रमानुसारं लिखत

  1. नामदेवः मन्दिरं गतवान्।
  2. नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
  3. नामदेवः मन्त्रं उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
  4. शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
  5. नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
  6. शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।

6. उचितविभक्तिं योजयित्वा पूरयत

उत्तराणि

  1. क्षीरेण
  2. शर्करया
  3. आपणं
  4. आपणं
  5. शर्कराम्
  6. मधुरेण
  7. पायसम्
  8. अन्यान् मधुरपदार्थान्
  9. तेन
  10. पायसेन

उपपदविभक्ति-नियमाः

  • प्रति → द्वितीया
  • विना → द्वितीया / तृतीया
  • निकषा → द्वितीया
  • परितः → द्वितीया
  • सह → तृतीया
  • धिक् → द्वितीया

7. क्तवतुप्रत्ययान्तरूपं योजयित्वा पुनः लिखत

मूलरूपम्क्तवतुरूपम्
अददात्दत्तवती
अजीवन्जीवितवन्तः
अकरोत्कृतवान्
अकुर्वन्कृतवन्तः
अपूजयन्पूजितवन्तः
अक्षिपत्क्षिप्तवान्
अक्षिपन्क्षिप्तवन्तः
अम्रियन्तमृतवन्तः
अभवन्भूतवन्तः
अवदत्उक्तवती
अरोपयत्रोपितवती
अशोधयन्शोधितवन्तः

8. समस्तपदानि लिखत

विग्रहःसमस्तपदम्
घृतस्य पात्रम्घृतपात्रम्
पाषाणस्य खण्डःपाषाणखण्डम्
प्रियः सुहृत्प्रियसुहृत्
उदरे वेदनाउदरवेदना
स्वीयः व्यवहारःस्वीयव्यवहारेण
जीवनस्य मूल्यानिजीवनमूल्यानि
मातुलस्य गृहम्मातुलगृहम्
नरेषु रत्नानि इवनररत्नानाम्
स्वीयं कर्तृत्वम्स्वकर्तृत्वेन
अपराधस्य भावनाअपराधभावनया
गुरोः उपदेशःगुरूपदेशम्
दिने दिनेप्रतिदिनम्
राजा ऋषिः इवराजर्षीणाम्

शब्दार्थाः

संस्कृत शब्दःहिन्दी अर्थ
अनुधावितवान्पीछे दौड़ा
अनुपालितवान्पालन किया
अपहृत्यचुराकर
आविर्भूतवान्प्रकट हुआ
आलिङ्गनं कृतवन्तौगले मिले
ऋजुतासरलता
करुणयादया से
कायःशरीर
घृतम्घी
दण्डितवन्तौदण्ड दिया
नैवेद्यम्भोग / प्रसाद
निकषासमीप
निमील्यबन्द करके
पाषाणखण्डम्पत्थर का टुकड़ा
पुण्यश्लोकःपुण्य चरित्र वाला
प्रसवित्रीजन्म देने वाली
बुभुक्षितःभूखा
भक्षितवान्खाया
मातुलःमामा
म्लानेकुम्हलाया हुआ
लगुडम्लाठी
शिक्षाप्रदाशिक्षा देने वाली
सुहृत्मित्र

मुख्य सन्देश

“आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः।”

अर्थात् जो सभी प्राणियों में अपने समान आत्मभाव देखता है, वही सच्चा पण्डित कहलाता है। नामदेव महाराज की कथा हमें दया, करुणा, प्रेम तथा सभी जीवों के प्रति सम्मान का संदेश देती है।

कक्षा 9 संस्कृत (शारदा) – पाठ 2 : सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः अभ्यास-प्रश्नोत्तराणि Sanskrit शारदा Class 9 Question Answer Chapter 3 Sharada CBSE

 कक्षा 9 संस्कृत (शारदा) – पाठ 2 : सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः

Sanskrit शारदा Class 9 Question Answer Chapter 2 Sharada CBSE

अभ्यास-प्रश्नोत्तराणि

1. एकपदेन उत्तरत

(क) वास्तविकसुखस्य आधारः कः?
उत्तरम् – धर्मः

(ख) कस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति?
उत्तरम् – अर्थस्य

(ग) स्वस्थः आर्थिकव्यवहारः कतिविधः भवति?
उत्तरम् – त्रिविधः

(घ) कीदृशः आर्थिकव्यवहारः कदापि न करणीयः?
उत्तरम् – अनैतिकः

(ङ) स्वावलम्बनं कस्य मूलं वर्तते?
उत्तरम् – स्वाभिमानस्य

(च) जलबिन्दुनिपातेन क्रमशः किं पूर्यते?
उत्तरम् – घटः


2. पूर्णवाक्येन उत्तरत

(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इति प्रसिद्धं वाक्यं कस्मिन् ग्रन्थे प्राप्यते?

उत्तरम् – “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इति प्रसिद्धं वाक्यं कौटिल्यस्य अर्थशास्त्रे प्राप्यते।

(ख) सामान्यजीवने कासाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्?

उत्तरम् – सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा तथा स्वास्थ्यसेवा इत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्।

(ग) ब्राह्मे मुहूर्ते कयोः चिन्तनम् आवश्यकम्?

उत्तरम् – ब्राह्मे मुहूर्ते धर्मस्य च अर्थस्य च चिन्तनम् आवश्यकम्।

(घ) जनः केन स्वावलम्बी भवति?

उत्तरम् – जनः सञ्चयस्य अभ्यासेन स्वावलम्बी भवति।

(ङ) लघुलघुसञ्चयः अपि कालान्तरे केन रूपेण वर्धते?

उत्तरम् – लघुलघुसञ्चयः अपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते।


3. वाक्येन सह ग्रन्थस्य सम्मेलनम्

वाक्यम्ग्रन्थः
जलबिन्दुनिपातेन क्रमशः पूर्यते घटःचाणक्यनीतिः
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत्गरुडपुराणम्
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्मनुस्मृतिः
सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थःअर्थशास्त्रम्

उत्तरम् –
(क) चाणक्यनीतिः
(ख) गरुडपुराणम्
(ग) मनुस्मृतिः
(घ) अर्थशास्त्रम्


4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणम्

(क) सुखस्य मूलं धर्मः।
प्रश्नः – कस्य मूलं धर्मः?

(ख) दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्।
प्रश्नः – कयोः चिन्तनम् आवश्यकम्?

(ग) सन्मार्गेण एव धनार्जनं करणीयम्।
प्रश्नः – केन एव धनार्जनं करणीयम्?

(घ) अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः।
प्रश्नः – कीदृशः आर्थिकव्यवहारः कदापि न करणीयः?

(ङ) संकटकाले स्वाभिमानिजनः अन्यजनस्य आर्थिकसहायतां नापेक्षते।
प्रश्नः – संकटकाले कः अन्यजनस्य आर्थिकसहायतां नापेक्षते?


5. उचितैः पदैः रिक्तस्थानानि पूरयत

धातुःएकवचनम्द्विवचनम्बहुवचनम्
विद्विद्यतेविद्येतेविद्यन्ते
लभ्लभतेलभेतेलभन्ते
अपेक्ष्अपेक्षतेअपेक्षेतेअपेक्षन्ते
वर्ध्वर्धतेवर्धेतेवर्धन्ते
सेव्सेवतेसेवेतेसेवन्ते
मोद्मोदतेमोदेतेमोदन्ते

6. बहुविकल्पीय प्रश्नाः

(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इत्यस्य मुख्य आशयः कः अस्ति?

उत्तरम् – (3) धर्मस्य आधारः अर्थः, सुखस्य आधारः धर्मः।

(ख) गरुडपुराणे किम् उपदिष्टम् अस्ति?

उत्तरम् – (2) प्रभाते धर्मार्थयोः चिन्तनं करणीयम्।

(ग) “सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्” इत्यस्य तात्पर्यं किम्?

उत्तरम् – (3) अर्थशौचं सर्वोपरि, अन्यविधशौचेभ्यः श्रेयः।

(घ) छात्रैः क्रियमाणः अपव्ययः कः?

उत्तरम् – (3) आडम्बरयुक्तः प्रदर्शनात्मकः व्ययः।

(ङ) “जलबिन्दुनिपातेन क्रमशः पूर्यते घटः” इति वाक्यं कः अवदत्?

उत्तरम् – (2) चाणक्यः।


शब्दार्थाः

संस्कृत शब्दःहिन्दी अर्थ
अपव्ययःफिजूल खर्च
अर्थोपार्जनम्धन कमाना
आजीविकाजीविकोपार्जन
आर्थिकसाक्षरतावित्तीय साक्षरता
न्यायपूर्णम्न्यायसंगत
सञ्चयःबचत
स्वावलम्बीआत्मनिर्भर
त्वरिताहारःफास्ट फूड
विपन्नासंकटग्रस्त
मूलभूतानाम्मौलिक
यथार्थतत्त्वम्वास्तविक तत्त्व
नियतनिक्षेपःसावधि जमा (FD)
आवृत्तिनिक्षेपःआवर्ती जमा (RD)

याद रखने योग्य सूत्र:
“सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः।”
अर्थात् धर्म से सुख प्राप्त होता है और धर्म के पालन के लिए अर्थ (धन) आवश्यक है।

Class 9 Sanskrit Sharada Chapter 4 न खलु वयस्तेजसो हेतुः Question Answers & Solutions

  अभ्यासः (अभ्यासाद् जायते सिद्धिः) १. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत — अनुवाद टूल और संसाधन (क) खुदीरामस्य जन्म कुत्...