Sunday, May 31, 2026

कक्षा 9 संस्कृत (शारदा) – पाठ 2 : सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः अभ्यास-प्रश्नोत्तराणि Sanskrit शारदा Class 9 Question Answer Chapter 3 Sharada CBSE

 कक्षा 9 संस्कृत (शारदा) – पाठ 2 : सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः

Sanskrit शारदा Class 9 Question Answer Chapter 2 Sharada CBSE

अभ्यास-प्रश्नोत्तराणि

1. एकपदेन उत्तरत

(क) वास्तविकसुखस्य आधारः कः?
उत्तरम् – धर्मः

(ख) कस्य अभावात् स्वकर्तव्यपालनं कठिनं भवति?
उत्तरम् – अर्थस्य

(ग) स्वस्थः आर्थिकव्यवहारः कतिविधः भवति?
उत्तरम् – त्रिविधः

(घ) कीदृशः आर्थिकव्यवहारः कदापि न करणीयः?
उत्तरम् – अनैतिकः

(ङ) स्वावलम्बनं कस्य मूलं वर्तते?
उत्तरम् – स्वाभिमानस्य

(च) जलबिन्दुनिपातेन क्रमशः किं पूर्यते?
उत्तरम् – घटः


2. पूर्णवाक्येन उत्तरत

(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इति प्रसिद्धं वाक्यं कस्मिन् ग्रन्थे प्राप्यते?

उत्तरम् – “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इति प्रसिद्धं वाक्यं कौटिल्यस्य अर्थशास्त्रे प्राप्यते।

(ख) सामान्यजीवने कासाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्?

उत्तरम् – सामान्यजीवने अन्नं, वस्त्रम्, आवासः, शिक्षा तथा स्वास्थ्यसेवा इत्यादीनां मूलभूतानाम् आवश्यकतानां पूर्त्यर्थं धनम् आवश्यकम्।

(ग) ब्राह्मे मुहूर्ते कयोः चिन्तनम् आवश्यकम्?

उत्तरम् – ब्राह्मे मुहूर्ते धर्मस्य च अर्थस्य च चिन्तनम् आवश्यकम्।

(घ) जनः केन स्वावलम्बी भवति?

उत्तरम् – जनः सञ्चयस्य अभ्यासेन स्वावलम्बी भवति।

(ङ) लघुलघुसञ्चयः अपि कालान्तरे केन रूपेण वर्धते?

उत्तरम् – लघुलघुसञ्चयः अपि कालान्तरे महत्सम्पत्तिरूपेण वर्धते।


3. वाक्येन सह ग्रन्थस्य सम्मेलनम्

वाक्यम्ग्रन्थः
जलबिन्दुनिपातेन क्रमशः पूर्यते घटःचाणक्यनीतिः
ब्राह्मे मुहूर्ते चोत्थाय धर्ममर्थं च चिन्तयेत्गरुडपुराणम्
सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्मनुस्मृतिः
सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थःअर्थशास्त्रम्

उत्तरम् –
(क) चाणक्यनीतिः
(ख) गरुडपुराणम्
(ग) मनुस्मृतिः
(घ) अर्थशास्त्रम्


4. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणम्

(क) सुखस्य मूलं धर्मः।
प्रश्नः – कस्य मूलं धर्मः?

(ख) दिनस्य आरम्भे धर्मार्थयोः चिन्तनम् आवश्यकम्।
प्रश्नः – कयोः चिन्तनम् आवश्यकम्?

(ग) सन्मार्गेण एव धनार्जनं करणीयम्।
प्रश्नः – केन एव धनार्जनं करणीयम्?

(घ) अनैतिकः आर्थिकव्यवहारः कदापि न करणीयः।
प्रश्नः – कीदृशः आर्थिकव्यवहारः कदापि न करणीयः?

(ङ) संकटकाले स्वाभिमानिजनः अन्यजनस्य आर्थिकसहायतां नापेक्षते।
प्रश्नः – संकटकाले कः अन्यजनस्य आर्थिकसहायतां नापेक्षते?


5. उचितैः पदैः रिक्तस्थानानि पूरयत

धातुःएकवचनम्द्विवचनम्बहुवचनम्
विद्विद्यतेविद्येतेविद्यन्ते
लभ्लभतेलभेतेलभन्ते
अपेक्ष्अपेक्षतेअपेक्षेतेअपेक्षन्ते
वर्ध्वर्धतेवर्धेतेवर्धन्ते
सेव्सेवतेसेवेतेसेवन्ते
मोद्मोदतेमोदेतेमोदन्ते

6. बहुविकल्पीय प्रश्नाः

(क) “सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः” इत्यस्य मुख्य आशयः कः अस्ति?

उत्तरम् – (3) धर्मस्य आधारः अर्थः, सुखस्य आधारः धर्मः।

(ख) गरुडपुराणे किम् उपदिष्टम् अस्ति?

उत्तरम् – (2) प्रभाते धर्मार्थयोः चिन्तनं करणीयम्।

(ग) “सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्” इत्यस्य तात्पर्यं किम्?

उत्तरम् – (3) अर्थशौचं सर्वोपरि, अन्यविधशौचेभ्यः श्रेयः।

(घ) छात्रैः क्रियमाणः अपव्ययः कः?

उत्तरम् – (3) आडम्बरयुक्तः प्रदर्शनात्मकः व्ययः।

(ङ) “जलबिन्दुनिपातेन क्रमशः पूर्यते घटः” इति वाक्यं कः अवदत्?

उत्तरम् – (2) चाणक्यः।


शब्दार्थाः

संस्कृत शब्दःहिन्दी अर्थ
अपव्ययःफिजूल खर्च
अर्थोपार्जनम्धन कमाना
आजीविकाजीविकोपार्जन
आर्थिकसाक्षरतावित्तीय साक्षरता
न्यायपूर्णम्न्यायसंगत
सञ्चयःबचत
स्वावलम्बीआत्मनिर्भर
त्वरिताहारःफास्ट फूड
विपन्नासंकटग्रस्त
मूलभूतानाम्मौलिक
यथार्थतत्त्वम्वास्तविक तत्त्व
नियतनिक्षेपःसावधि जमा (FD)
आवृत्तिनिक्षेपःआवर्ती जमा (RD)

याद रखने योग्य सूत्र:
“सुखस्य मूलं धर्मः, धर्मस्य मूलम् अर्थः।”
अर्थात् धर्म से सुख प्राप्त होता है और धर्म के पालन के लिए अर्थ (धन) आवश्यक है।

No comments:

Post a Comment

शारदा | कक्षा ९ | षष्ठः पाठः मनःपूतं समाचरेत् सम्पूर्ण प्रश्नोत्तराणि

  मनःपूतं समाचरेत् अभ्यास-प्रश्नोत्तराणि शारदा | कक्षा ९ | षष्ठः पाठः सम्पूर्ण प्रश्नोत्तराणि पाठ-परिचयः यह पाठ विभिन्न सुभाषितों ...