Saturday, May 30, 2026

6th पाठ 11 पृथिव्यां त्रीणि रत्नानि अभ्यास कार्य

 


   पाठ 11-पृथिव्यां त्रीणि रत्नानि

                    अभ्यास कार्य 


प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च ।
उत्तरम्:  स्वयेव कुर्वन्तु ।

प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।
(क) पृथिव्यां कति रत्नानि सन्ति? – ______
उत्तरम्:  त्रीणि।

(ख) अयं निजः परो वा इति गणना केषां भवति ? – ______
उत्तरम्: लघुचेतसाम्।

(ग) कार्याणि क्रेन सिध्यन्ति ? – ______
उत्तरम्: उद्यमेन ।

(घ) विद्या किं ददाति ? – ______
उत्तरम्: विनयम् ।

(ङ) जननी जन्मभूमिश्च कस्मात् गरीयसी ? – ______
उत्तरम्: स्वर्गात् ।

(च) लङ्का कीदृशी आसीत्? – ______
उत्तरम्: स्वर्णमयी।


प्रश्न 3. अधोलिखितानां प्रश्नानाम् एकवाक्येन उत्तराणि लिखन्तु ।
(क) पृथिव्यां त्रीणि रत्नानि कानि सन्ति?
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं च सन्ति ।

(ख) उदारचरितानां भावः कः भवति ?
उत्तरम्: उदारचरितानां वसुधा एव कुटुम्बकम् अस्ति ।

(ग) मृगाः स्वयमेव कस्य मुखे न प्रविशन्ति ?
उत्तरम्: मृगाः स्वयमेव सुप्तस्य सिंहस्य मुखे न प्रविशन्ति ।

(घ) अभिवा4शीलस्य नित्यं कानि वर्धन्ते ?
उत्तरम्: अभिवादनशीलस्य नित्यं चत्वारि आयुर्विद्यायशोबलं वर्धन्ते ।

(ङ) मनुष्यः धनात् किम् आप्नोति ?
उत्तरम्: मनुष्यः धनात् धर्मं प्राप्नोति ।

(च) उत्पन्नेषु कार्येषु कीदृशं धनम् उपयोगाय न भवति ?
उत्तरम्: उत्पन्नेषु कार्येषु परहस्तगतं धनम् उपयोगाय न भवति ।


प्रश्न 4. चित्रं दृष्ट्वा वाक्यानि रचयन्तु ।
उदाहरणम्- वृक्षः फलानि यच्छति । त्वं फलानि स्वीकरोषि । अहं फलानि स्वीकरोमि ।
उत्तरम्:
(क) वृक्षः छायां यच्छति । छाया शीतला भवति । वयं छायायाम् विश्रामम् कुर्मः ।
(ख) वृक्ष: कर्गदम् यच्छति । कर्गदः उपयोगाय भवति। वयम् कर्गदेषु लिखामः ।
(ग) वृक्षः काष्ठं यच्छति । काष्ठम् इन्धनाय भवति। भवननिर्माणे काष्ठस्य आवश्यकता भवति ।
(घ) वृक्षः शुद्धं वायुं यच्छति । अनेन पर्यावरणस्य शुद्धिः भवति । शुद्धेन वायुना वयं स्वस्थाः भवामः ।
(ङ) वृक्षः पुष्पाणि यच्छति । पुष्पाणि सुगन्धं प्रसारयन्ति । पुष्पाणां माला भवति ।

प्रश्न 5. अधोलिखितानि वाक्यानि पठित्वा ‘आम्’ अथवा ‘न’ इति लिखन्तु ।
यथा – किं पृथिव्यां त्रीणि रत्नानि सन्ति? (आम्)
(क) त्रीणि रत्नानि जलम् अन्नं पाषाणः च सन्ति? ______
उत्तरम्: न

(ख) किं धर्मेण सुखं प्राप्यते ? ______
उत्तरम्: आम्

(ग) किं विद्या विनयं ददाति ? ______
उत्तरम्: आम्

(घ) किम् अभिवादनशीलस्य विद्या वर्धते ? ______
उत्तरम्: आम्

(ङ) किम् उद्यमेन कार्याणि नश्यन्ति ? ______
उत्तरम्: न

(च) किं जन्मभूमि स्वर्गात् गरीयसी भवति ? ______
उत्तरम्: आम्

प्रश्न 6. पाठगतानि सुभाषितानि स्मृत्वा रिक्तस्थानानि पूरयन्तु।
(क) पृथिव्यां त्रीणि रत्नानि _____ सुभाषितम्।
उत्तरम्: पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितम्।

(ख) उदारचरितानां तु _____ कुटुम्बकं भवति ।
उत्तरम्: उदारचरितानां तु वसुधैव कुटुम्बकं भवति ।

(ग) उद्यमेन हि _____ सिद्ध्यन्ति ।
उत्तरम्: उद्यमेन हि कार्याणि सिद्ध्यन्ति ।

(घ) अभिवादनशीलस्य वृद्धोपसेविनः _____ वर्धन्ते ।
उत्तरम्: अभिवादनशीलस्य वृद्धोपसेविनः चत्वारि आयुर्विद्या यशोबलं वर्धन्ते ।

(ङ) उद्यमः _____ पराक्रमः ।
उत्तरम्: उद्यमः साहसं धैर्यं बुद्धिः वर्त्तन्ते, तत्र देवः सहायकृत् पराक्रमः ।

(च) विद्या _____ ददाति ।
उत्तरम्: विद्या विनयं ददाति ।

(छ) जननी जन्मभूमिश्च _____ गरीयसी भवति ।
उत्तरम्: जननी जन्मभूमिश्च स्वर्गादपि गरीयसी भवति ।

No comments:

Post a Comment

6th पाठ 11 पृथिव्यां त्रीणि रत्नानि अभ्यास कार्य

     पाठ 11-पृथिव्यां त्रीणि रत्नानि                       अभ्यास कार्य  प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च...