Saturday, May 30, 2026

6th पाठ: 5 शूराः वयं धीराः वयम्- अभ्यास कार्य

 

कक्षा-6th पाठ: -5                     शूराः वयं धीराः वयम्- अभ्यास कार्य


२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।

(क) शूराः के?
उत्तरम्:-भारतीयाः/ वयम्

(ख) वयं कीदृशमानसाः स्मः ?
उत्तरम्:-दृढ़मानसाः

(ग) वयं कीदृशचिन्तकाः स्मः ?

उत्तरम्: शुभचिन्तकाः

(घ) वयं कुत्र अतिनिश्चलाः स्मः ?
उत्तरम्:-विजये

(ङ) वयं विजयार्थिनः कुत्र याम: ?
उत्तरम्:-समराङ्गणम्।


४. ‘क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु ।
उत्तरम्:
(क) गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः ।
(ख) यामो वयं समराङ्गणं विजयार्थिनो बालाः ।
(ग) जगदीश हे ! परमेश हे! सकलेश हे भगवन् ।
(घ) जय मङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ।
(ङ) जनसेवकाः अतिभावुकाः शुभचिन्तकाः नियतम् ।
(च) ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये।


५. उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।

एकवचनम् – बहुवचनम्

यथा – शूरः – शूरा:
(क) धीरः – …………
(ख) ……….. – वीराः
(ग) जनसेवकः – ……….
(घ) ……….. – धनकामना:
(ङ) निखिल: – ……….
(च) ……….. – बाला:
उत्तरम्:
(क) धीर: – धीराः
(ख) वीरः – वीराः
(ग) जनसेवक: – जनसेवकाः
(घ) धनकामना – धनकामनाः
(ङ) निखिल: – निखिलाः
(च) बालः – बाला:


६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु ।

‘क’ – ‘ख’

(क) छात्र: पठामि
(ख) छात्रौ पठसि
(ग) छात्राः पठति
(घ) अहम् पठन्ति
(ङ) आवाम् पठथः
(च) वयम् पठथ
(छ) त्वम् पठतः
(ज) युवाम् पठामः
(झ) यूयम् पठाव:
उत्तरम्:
(क) छात्रः पठति ।
(ख) छात्रौ पठतः ।
(ग) छात्राः पठन्ति ।
(घ) अहम् पठामि ।
(ङ) आवाम् पठावः ।
(च) वयम् पठामः ।
(छ) त्वम् पठसि ।
(ज) युवाम् पठथः ।
(झ) यूयम् पठथ |


७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु ।


यथा – तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः एकवचनम् – ……… सा (एषा / अहम् / सा)

(क) अस्मद् प्रथमा विभक्तिः, एकवचनम् – ………. वयम् / त्वम् / अहम्)
उत्तरम्:
अहम्

(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – ……….. (त्वम्/स: /युवाम्)
उत्तरम्:
युवाम्

(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचम् – ……… (एष: /ते/सा)
उत्तरम्:
ते

(घ) एतद्, नपुंसकलिङ्गम् प्रथमा विभक्तिः बहुवचनम् – …….. (एतानि / वयम् / तत्)
उत्तरम्:
एतानि

(ङ) एतद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः, एकवचनम् – ……… (अहम् / एषा / एतत्)
उत्तरम्:
एषा

(च) तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः द्विवचनम् – ……… (ते / अहम् / एषा)
उत्तरम्:
ते

८. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु।


यथा – नायिका नृत्यति । (नृत्)

(क) बालक: ………….। (लिख)
(ख) छात्रौ …………… | (क्रीड्)
(ग) अहम् ………… । (गच्छ)
(घ) कविः ………. । (पश्य्)
(ङ) महिला ………… । (वद्)
(च) देवा: ……….. । (आगच्छ्)
(छ) फलानि ……. । (पत्)
(ज) गृहिण्यः …….. । (उपविश्)
उत्तरम्-
(क) बालकः लिखति ।
(ख) छात्रौ क्रीडतः ।
(ग) अहम् गच्छामि।
(घ) कविः पश्यति ।
(ङ) महिलाः वदन्ति ।
(च) देवाः आगच्छन्ति ।
(छ) फलानि पतन्ति ।
(ज) गृहिण्यः उपविशन्ति ।


No comments:

Post a Comment

6th पाठ 11 पृथिव्यां त्रीणि रत्नानि अभ्यास कार्य

     पाठ 11-पृथिव्यां त्रीणि रत्नानि                       अभ्यास कार्य  प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च...