Saturday, May 30, 2026

6th पाठ: 7- अतिथिदेवो भव:- अभ्यास कार्य

 
कक्षा-6th पाठ: -5                     अतिथिदेवो भव:- अभ्यास कार्य

१. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।


(क) राधिका कथं चलति स्म ?
उत्तरम्:-कूर्दमाना

(ख) गृहे कति अतिथयः सन्ति ?
उत्तरम्:-पञ्च

(ग) कां दृष्ट्वा शावकाः भीताः न भवन्ति ?
उत्तरम्:-राधिकां

(घ) मार्जार्याः कति शावका: ?
उत्तरम्:-चत्वारः

(ङ) राधिका मार्जार्यै किं ददाति ?
उत्तरम्:-क्षीरं

(च) चित्रवर्णः कः अस्ति ?
उत्तरम्:-शबल:


२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

(क) मार्जारीशावकानां नामानि कानि ?
उत्तरम्:-मार्जारीशावकानां नामानि सन्ति – तन्वी, मृद्वी, शबलः, भीमः च इति ।

(ख) राधिका मार्जारीशावकान् किं पाठयति ?
उत्तरम्:-राधिका मार्जारीशावकान् – ‘अतिथिदेवो भव’ पाठयति ।

(ग) विशिष्टाः अतिथयः के?
उत्तरम्:-मार्जारी चत्वारः शावका: च विशिष्टाः अतिथयः सन्ति ।

(घ) पितामही राधिकां किं वदति ?
उत्तरम्:-पितामही राधिकां वदति – “ राधिके ! अतिथयः कदा आगच्छति इति न जानीमः । ”

(ङ) मार्जारी कदा राधिकायाः पृष्ठतः आगच्छति ?
उत्तरम्:-यदा शावकानां समीपं राधिका गच्छति मार्जारी मन्दं मन्दं पृष्ठतः आगच्छति ।

(च) मार्जार्या: शावकाः कीदृशाः सन्ति ?
उत्तरम्:-तन्वी आकृत्या सुन्दरी मृद्वी स्पर्शेन अतीव कोमला । शबल: चित्रवर्णः तथा च भीमः किञ्चित् स्थूलः सन्ति ।


४. उत्पीठिकायां किम् अस्ति ? किं नास्ति ? इति चित्रं दृष्टवा लिखन्तु ।

यथा – उत्पीठिकायां पुस्तकम् अस्ति ।
उत्पीठिकायां घटी नास्ति ।
(पुस्तकम्, घटी, लेखनी, चषक:, कूपी, स्यूतः, सङ्गणकम्, वृक्षः, फलम्, कन्दुक:)
उत्तरम्:

  1. उत्पीठिकायां सङ्गणकम् अस्ति ।

  2. उत्पीठिकायां लेखनी नास्ति ।

  3. उत्पीठिकायां कन्दुकम् अस्ति ।

  4. उत्पीठिकायां वृक्षः नास्ति ।

  5. उत्पीठिकायां घटी नास्ति ।

  6. उत्पीठिकायां फलम् नास्ति ।

  7. उत्पीठिकायां चषक: नास्ति ।

  8. उत्पीठिकायां कूपी अस्ति ।

  9. उत्पीठिकायां स्यूतः अस्ति ।

  10. उत्पीठिकायां पुस्तकम् अस्ति ।


५. रेखाचित्रं दृष्ट्वा उदाहरणानुसारं वाक्यानि लिखन्तु ।

यथा – मार्जारः कुत्र अस्ति ? मार्जारः अत्र अस्ति ।
सेवकः कुत्र अस्ति ? सेवक: तत्र अस्ति ।
उत्तरम्-
अत्र-

(1) छात्रः कुत्र अस्ति ? छात्रः अत्र अस्ति ।
(2) काकः कुत्र अस्ति? काकः अत्र अस्ति ।
तत्र-

(1) विद्यालयः कुत्र अस्ति ? विद्यालयः तत्र अस्ति ।
(2) गायक : कुत्र अस्ति ? गायकः तत्र अस्ति ।
सर्वत्र-

(1) प्रकाशः कुत्र अस्ति ? प्रकाश: सर्वत्र अस्ति ।
(2) परमेश्वरः कुत्र अस्ति ? परमेश्वरः सर्वत्र अस्ति ।
एकत्र –

(1) बालकः कुत्र अस्ति ? बालक: एकत्र अस्ति ।
(2) मयूरः कुत्र अस्ति ? मयूर : एकत्र अस्ति ।

६. भोजनशालायां किं किम् अस्ति ? इति पञ्चभिः वाक्यैः लिखन्तु ।

यथा- भोजनशालायां पाचकः अस्ति ।
(सूचकपदानि पाचकः, पात्रम्, तण्डुलाः शाकानि, अग्निः, जलम्)
उत्तरम्:

  1. भोजनशालायां पात्रम् अस्ति ।

  2. भोजनशालायां अग्निः अस्ति ।

  3. भोजनशालायां जलम् अस्ति ।

  4. भोजनशालायां तण्डुलाः सन्ति ।

  5. भोजनशालायां शाकानि सन्ति ।


७. अधोलिखितेभ्यः वाक्येभ्यः अव्ययपदानि चित्वा लिखन्तु ?

(क) अमितः गृहात् बहिः गच्छति । …………
(ख) एक वानरः वृक्षस्य उपरि तिष्ठति । …………
(ग) सः फलानि अधः क्षिपति । ………….
(घ) तत्र एक: बिडालः अस्ति । ………..
(ङ) बिडाल : गृहस्य अन्तः प्रविशति । …………

(क) अमितः गृहात् बहिः गच्छति ।
उत्तरम्:-बहि:

(ख) एक वानरः वृक्षस्य उपरि तिष्ठति ।
उत्तरम्:-उपरि

(ग) सः फलानि अधः क्षिपति ।
उत्तरम्:-अधः

(घ) तत्र एक: बिडालः अस्ति ।
उत्तरम्:-तत्र

(ङ) बिडाल : गृहस्य अन्तः प्रविशति ।
उत्तरम्:-अन्तः


No comments:

Post a Comment

6th पाठ 11 पृथिव्यां त्रीणि रत्नानि अभ्यास कार्य

     पाठ 11-पृथिव्यां त्रीणि रत्नानि                       अभ्यास कार्य  प्रश्न 1. एतानि सर्वाणि सुभाषितानि उच्चैः पठन्तु स्मरन्तु लिखन्तु च...