8th पाठ:-2 अल्पानामपि वस्तूनां संहतिः कार्यसाधिका अभ्यास-कार्यम्
Grade : VIII Topic : साहित्य
Chapter 2: अल्पानामपि वस्तूनां संहतिः कार्यसाधिका अभ्यास-कार्यम्
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति ?
उत्तराणि :
उत्तराखण्डम्
(ख) सर्वत्र कः प्रसृतः ?
उत्तराणि :
अन्धकार:
(ग) कः सर्वान् प्रेरयन् अवदत् ?
उत्तराणि :
नायकः
(घ) कः हितोपदेशस्य कथां श्रावयति ?
उत्तराणि :
नायकः
(ङ) कपोतराजस्य नाम किम् ?
उत्तराणि :
चित्रग्रीवः
(च) व्याधः कान् विकीर्य जालं प्रसारितवान् ?
उत्तराणि :
तण्डुलकणान्
(छ) विपत्काले विस्मयः कस्य लक्षणम् ?
उत्तराणि :
कापुरुषस्य
(ज) चित्रग्रीवस्य मित्रं हिरण्यकः कुत्र निवसति ?
उत्तराणि :
गण्डकीतीरे
(झ) चित्रग्रीवः हिरण्यकं कथं सम्बोधयति ?
उत्तराणि :
भोः मित्र
(ञ) पूर्वं केषां पाशान् छिनतु इति चित्रग्रीवः वदति ?
उत्तराणि :
आश्रितानाम्
२. पूर्णवाक्येन उत्तरं लिखत-
(क) यदा केदारक्षेत्रम् आरोहन्तः आसन् किम् अभवत्?
उत्तराणि :
यदा केदारक्षेत्रम् आरोहन्तः आसन् तदा वेगेनं वृष्टिः आरब्धा।
(ख) सर्वे उच्चस्वरेण किं प्रार्थयन्त ?
उत्तराणि :
सर्वे उच्चस्वरेण प्रार्थयन्त-हे भगवन्! रक्ष अस्मान्।
(ग) असम्भवं कार्यं कथं कर्तुं शक्यते इति नायक : उक्तवान्?
उत्तराणि :
असम्भवं कार्यं आत्मविश्वासबलेन कर्तुं शक्यते इति नायकः उक्तवान्।
(घ) निर्जने वने तण्डुलकणान् दृष्ट्वा चित्रग्रीवः किं निरूपयति ?
उत्तराणि :
चित्रग्रीवः निरूपयति यत् निर्जने वने तण्डुलकणानां सम्भवः कथम्।
(ङ) किं नीतिवचनं प्रसिद्धम् ?
उत्तराणि :
लघूनाम् अपि वस्तूनां संहतिः कार्यसाधि का इति नीतिवचनं प्रसिद्धम् ।
(च) व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कम् आदेशं दत्तवान्?
उत्तराणि :
व्याधात् रक्षां प्राप्तुं चित्रग्रीवः कपोतान् आदेशं दत्तवान्।
(छ) हिरण्यकः किमर्थं तूष्णीं स्थित: ?
उत्तराणि :
हिरण्यकः कपोतानाम् अवपातभयात् चकितः तूष्णीं स्थितः।
(ज) पुलकित : हिरण्यकः चित्रग्रीवं कथं प्रशंसति ?
उत्तराणि :
पुलकित: हिरण्यकः चित्रग्रीवं प्रशंसति- आश्रितवात्सल्येन त्वं त्रैलोकस्याऽपि स्वामित्वं प्राप्तुं योग्योऽसि।
(झ) कपोताः कथं आत्मरक्षणं कृतवन्तः ?
उत्तराणि :
कपोता: बुद्धिबलेन संघटनसामर्थ्येन च आत्मरक्षणं कृतवन्तः।
(ञ) नायकस्य प्रेरकवचनैः सर्वेऽपि किम् अकुर्वन्?
उत्तराणि :
नायकस्य प्रेरकवचनैः सर्वे भयं विहाय सेतुनिर्माणं कार्ये संलग्नाः जाताः ।
३. अधोलिखितानि वाक्यानि पठित्वा ल्यप् प्रत्ययान्तेषु परिवर्तयत-
(क) छात्रः कक्षां प्रविशति । संस्कृतं पठति ।
छात्रः कक्षां प्रविश्य संस्कृतं पठति ।
(ख) भक्तः मन्दिरम् आगच्छति । पूजां करोति ।
उत्तराणि :
भक्तः मन्दिरम् आगत्य पूजां करोति ।
(ग) माता भोजनं निर्माति। पुत्राय ददाति।
उत्तराणि :
माता भोजनं निर्माय पुत्राय ददाति ।
(घ) सुरेशः प्रातः उत्तिष्ठति। देवं नमति।
उत्तराणि :
सुरेशः प्रातः उत्थाय देवं नमति ।
(ङ) रमा पुस्तकं स्वीकरोति । विद्यालयं गच्छति ।
उत्तराणि :
रमा पुस्तकं स्वीकृत्य विद्यालयं गच्छति।
(च) अहं गृहम् आगच्छामि । भोजनं करोमि ।
उत्तराणि :
अहं गृहम् आगत्य भोजनं करोमि ।
(छ) तण्डुलकणान् विकिरति । जालं विस्तारयति ।
उत्तराणि :
तण्डुलकणान् विकीर्य जालं विस्तारयति ।
(ज) व्याधः तण्डुलकणान् अवलोकते । भूमौ अवतरति ।
उत्तराणि :
व्याधः तण्डुलकणान् अवलोक्य भूमौ अवतरति ।
४. उदाहरणानुसारम् उपसर्गयोजनेन क्त्वा – स्थाने ल्यप्-प्रत्ययस्य प्रयोगं कृत्वा पदानि परिवर्तयत-
(क) छात्रः गृहं गत्वा भोजनं करोति ।
छात्रः गृहम् आगत्य (आ + गम् + ल्यप्) भोजनं करोति ।
(ख) माता वस्त्राणि क्षालयित्वा पचति ।
__________________________
उत्तराणि :
माता वस्त्राणि प्रक्षाल्य / संक्षाल्य पचति ।
(ग) शिक्षक: श्लोकं लिखित्वा पाठयति ।
__________________________
उत्तराणि :
शिक्षक: श्लोकं उल्लिख्य पाठयति ।
(घ) रमा स्थित्वा गीतं गायति ।
__________________________
उत्तराणि :
रमा उत्थाय गीतं गायति ।
(ङ) शिष्यः सर्वदा गुरुं नत्वा पठति ।
__________________________
उत्तराणि :
शिष्यः सर्वदा गुरुं प्रणभ्य पठति ।
(च) लेखकः आलोचनं कृत्वा लिखति।
__________________________
उत्तराणि :
लेखकः आलोचनं संस्कृत्य लिखति ।
५. पाठे प्रयुक्तेन उपयुक्तपदेन रिक्तस्थानं पूरयत-
(क) सर्वै: एकचित्तीभूय __________________________ उड्डीयताम् ।
(ख) जालापहारकान् तान् __________________________ पश्चाद् अधावत्।
(ग) अस्माकं मित्रं __________________________ नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति ।
(घ) हिरण्यकः कपोतानाम् __________________________ स्थितः।
(ङ) यतोहि विपत्काले __________________________ कापुरुषलक्षणम्।
उत्तराणि :
(क) सर्वै: एकचित्तीभूय जालमादाय उड्डीयताम् ।
(ख) जालापहारकान् तान् अवलोक्य पश्चाद् अधावत्।
(ग) अस्माकं मित्रं हिरण्यको नाम मूषकराजः गण्डकीतीरे चित्रवने निवसति ।
(घ) हिरण्यकः कपोतानाम् अवपातभयेन चकितस्तूष्णीं स्थितः।
(ङ) यतोहि विपत्काले विस्मयः एव कापुरुष- लक्षणम्।
६. पाठे प्रयुक्तेन ल्यप्प्रत्ययान्तपदेन सह उपयुक्तं पदं
उत्तराणि :
७. समासयुक्तपदेन रिक्तस्थानं पूरयत-
(क) गण्डक्याः तीरम् = गण्डकीतीरम्
तस्मिन् = गण्डकीतीरे
(ख) तण्डुलानां कणाः = _____________
तान् = _____________
उत्तराणि :
तण्डुलानां कणाः = तण्डुलकणाः
तान् = तण्डुलकणान्
(ग) जालस्य अपहारकाः = _____________
तान् = _____________
उत्तराणि :
जालस्य अपहारकाः = जालापहारका:
तान् = जालापहारकान्
(घ) अवपाताद् भयम् = _____________
तस्मात् = _____________
उत्तराणि :
अवपाताद् भयम् = अवपातभयम्
तस्मात् = अवपातभयात्
(ङ) कापुरुषाणां लक्षणम् = _____________
तस्मिन् = _____________
उत्तराणि :
कापुरुषाणां लक्षणम् = कापुरुषलक्षणम्
तस्मिन् = कापुरुषलक्षणे
८. सार्थकपदं ज्ञात्वा सन्धिविच्छेदं कुरुत-
(क) इत्याकर्ण्य = इति + आकर्ण्य |
(ख) चित्रग्रीवोऽवदत् = चित्रग्रीवः + अवदत् ।
(ग) बालकोऽत्र = _____________
(घ) धैर्यमथाभ्युदये = _____________
(ङ) भोजनेऽप्यप्रवर्तनम् = _____________
(च) नमस्ते = _____________
(छ) उपायश्चिन्तनीयः = _____________
(ज) व्याधस्तत्र = _____________
(झ) हिरण्यकोऽप्याह = _____________
(ञ) मूषकराजो गण्डकीतीरे = _____________
(ट) अतस्त्वाम् = _____________
(ठ) कश्चित् = _____________
उत्तराणि :
(ग) बालकोऽत्र = बालकः + अत्र
(घ) धैर्यमथाभ्युदये = धैर्यम् + अथ + अभ्युदये
(ङ) भोजनेऽप्यप्रवर्तनम् = भोजने + अपि + अप्रवर्तनम्
(च) नमस्ते = नमः + ते
(छ) उपायश्चिन्तनीयः = उपाय: + चिन्तनीयः
(ज) व्याधस्तत्र = व्याधः + तत्र
(झ) हिरण्यकोऽप्याह = हिरण्यकः + अपि + आह
(ञ) मूषकराजो गण्डकीतीरे = मूषकराजः + गण्डकीतीरे
(ट) अतस्त्वाम् = अतः + त्वाम्
(ठ) कश्चित् = कः + चित्
[11:30 pm, 30/5/2026] Upendar: NCERT Solutions for Class Sanskrit Lesson: Practice Questions with Answers along with Hindi Translation of Complete Lesson for CBSE Session 2026-27 "Deepakam" (दीपकम) NCERT Solutions for Class Sanskrit Chapter This solution contains explanations of the complete chapter, questions, answers etc. [11:30 pm, 30/5/2026] Upendar: कक्षा संस्कृत पाठ के लिए एनसीईआरटी समाधान: सीबीएसई सत्र 2026-27 के लिए संपूर्ण पाठ के हिंदी अनुवाद के साथ उत्तरों के साथ अभ्यास प्रश्न "दीपकम" (दीपकम) कक्षा संस्कृत अध्याय के लिए एनसीईआरटी समाधान इस समाधान में संपूर्ण अध्याय, प्रश्न, उत्तर आदि के स्पष्टीकरण शामिल हैं।
No comments:
Post a Comment