अद्वैतवेदान्तः दर्शनेषु अन्यतमः।न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु
शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । आस्य मतस्य प्रवर्तकः शङ्कराचार्यः । अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुति स्मृति सूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य
"शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः
ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य
धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः
पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति ।
अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां
चतुर्वर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम्
उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं
प्राप्यते इत्यतः मोक्षःनित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य
मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं
व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः
वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां
शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे आत्मनः स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र
समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते । उपनिषन्मन्त्रसमूहस्यापि वेदान्तः इति संज्ञा,
यतः
समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति ।
परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् ब्रह्म, तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते,
एवमन्यत्र न
प्राप्यते । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् उपनिषत् वेदान्तत्वेन आद्रियते ।
उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन
गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां
सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य
सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि
इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा
एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
18 पुराणों के नाम और उनका संक्षिप्त परिचय 18 mahapurans all maha purans hindi.shrimad bhagwatall maha purans hindi.shrimad bhagwat.all sanskrit ki jankari , sabhi sanskrit
Wednesday, November 30, 2016
Subscribe to:
Post Comments (Atom)
इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।
इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...
-
१८ पुराण के नाम और उनका महत्त्व महर्षि वेदव्यास द्वारा रचित 18 पुराणों के बारें में पुराण अठारह हैं। मद्वयं भद्वयं चैव ब्रत्रयं...
-
आख्यानपरक लेखन आख्यायिका का अर्थ की विशेषताएँ बताइए आख्यानपरक लेखन की विशेषताएं बताइए आख्यान meaningआख्यान आख्यान शब्द आरंभ से ही सामान्यत: कथा अथवा कहानी के अर्थ में प्रयुक्त होता रहा है। तारानाथकृत " वाचस्पत्यम् &...
-
स्वस्तिवाचन स्वस्तिवाचन (स्वस्तयन) मन्त्र और अर्थ-- हमारे देश की यह प्राचीन परंपरा रही है कि जब कभी भी हम कोई कार्य प्रारंभ करते है, तो उस...
No comments:
Post a Comment