॥ उमाशतकम् ॥ प्रथमं दशकम् (आर्यावृत्तम्) फुल्लत्वं रविदीधितिनिरपेक्षमुमामुख्याब्जस्य । पूर्णं करोतु मानसमभिलाषं पुण्यभूमिजुषाम् ॥ १॥ कैलासवासिनी वा धवलद्युतिबिम्बनिलया वा । आकाशान्तरपीठस्थितोत मे देवता भवति ॥ २॥ आकाशान्तरपीठस्थितैव साक्षात्पराशक्तिः । तस्या अंशव्यक्ती शशिनि सिताद्रौ च राजन्त्यौ ॥ ३॥ सङ्कल्पवातसङ्गादानन्दरसो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते वपुर्मातः ॥ ४॥ इच्छाविचित्रवीर्यात्तेजःपटलो घनीभूतः । अन्तर्व्यापकशक्तेः समपद्यत ते विभोर्गात्रम् ॥ ५॥ इच्छायोगात्तेजसि तव भागः कश्चिदस्तीशे । विज्ञानयोगतो मुदि भाग्यस्त्वयि कश्चिदीशस्य ॥ ६॥ सम्राजौ शशभृति यौ गृहवन्तौ यौ च सितगिरिणा । तदिदं युवयोर्माया वेषान्तरमिथुनयुगलमुमे ॥ ७॥ यद्यपि विभूतिरधिकं युवयोर्विश्वाम्बिके भवति । मिथुने तथाप्यमू वां नेदिष्ठे देवि पश्यामः ॥ ८॥ दम्पत्योर्भगवति वां प्रतिबिम्बौ भास्करे भवतः । देहभुवौ भूचक्रस्वप्नप्रव्यक्त्ती सुधामहसि ॥ ९॥ देहे भुवः प्रतिबिम्बः प्राणन्मूलस्य नेदीयान् । प्रतिबिम्बव्यक्त्तेश्च स्वप्नव्यक्त्तिश्च नेदिष्ठा ॥ १०॥ द्वितीयं दशकम् (वसन्ततिलकावृत्तम्) काश्मीरमुन्नतपयोधरकुम्भसीम्नि स्रिग्धं प्रदिग्धमुमया शरणं ममास्तु । भेत्ता पुरामुपरि भस्मन एव धत्ते रागस्य चिह्नमिव यत्परिरम्भलग्नम् ॥ ११॥ अस्माकमम्बुदघनस्तनितोपमेषु हेरम्बबृंहितविभूतिषु भाषितेषु । सिद्धोद्यमानमतिलङ्ध्य निजापदानं बद्धश्रुतिर्भवतु भर्गगृहस्य नेत्री ॥ १२॥ सन्देह एष मम चन्द्रकलाधरस्य शुद्धान्तसुन्दरि मनांसि सतां तवाङ्ध्रिः । शुद्धानि किं विशति किन्नु भजन्ति शुद्धिम् अङ्ध्रे प्रवेशमनु तानि विधूय पङ्कम् ॥ १३॥ त्रैलोक्यपालनविधायि विकस्वराब्ज- शोभाविडम्बि मणिपीठतटीविलम्बि । क्षेमप्रदायि हृदये चरणं न्यधायि किंवा न ते नगसुते यदि यं विपन्नः ॥ १४॥ विघ्नानि यन्मुहुरिदं हृदयं चलं यत् सौख्यं न किञ्चिदपि यद्यदुपर्यसौख्यम् । त्वामाश्रितस्य च ममाखिललोकराज्ञी मत्तः परो जगति को मनुजेषु कल्की ॥ १५॥ मा भून्निदेशवचनं नयनाञ्चलस्य माभूत्प्रसारणमयि त्यज निर्दयत्वम् । अङ्गीकुरु स्तुतगुणे चरणाम्बुजं ते ध्यातुं तदेव बहु मे भुवनस्य मातः ॥ १६॥ कामं ददातु न दादतु मनो धिनोतु नो वा धिनोतु नयताद्दिवमन्यतो वा । आत्मर्पितोऽयगजापदपङ्कजाय किं काङ्क्षते प्रतिफलं विपुलोऽनुरागः ॥ १७॥ पादं ददासि मनसे किनु पापिनो मे पारिप्लवाय भुवनाधिकवासनाय । दूरे स तावदचलेन्द्रकुमारिका मे देवि प्रणाममुररीकुरु तावताऽलम् ॥ १८॥ आराधनं तव भवानि यथाविधानं कर्तुं कुलाचलकुमारि न परयामि । पादार्विन्दयुगमेव तवानतोऽहं पापाकुलः शरणमीश्वरि काङ्क्षमाणः ॥ १९॥ बद्धव्रता प्रणतपापनिवारणे त्वं बद्धाञ्जलिश्च बहुपापसमाकुलोऽहम् । कर्तव्यमद्रितनये निपुणं विमृश्य निर्धारयात्र न यथा यशसो विलोपः ॥ २०॥ तृतीयं दशकम् (पृथ्वीवृत्तम्) व्रतं तव विदन्हृदि प्रणतपापनाशे कृतं फलप्रवणपातकप्रमथितोऽपि नास्म्याकुलः । भवामि शिरसा नतस्तव भवानि पादाम्बुजं व्रतस्य परिपालने यदि मतिर्गतिर्मे भव ॥ २१॥ तपश्चरितुमुत्तमं प्रयतितं मयानेकदा परन्तु बहुलैरधैः परिणतैर्वृतोऽध्वा मम । अयं मम दृढोऽञ्जलिस्तनुवियोगकालावधि - र्यदि त्वमचलव्रतास्यचलकन्यके मामव ॥ २२॥ अजेयबहुपापभृद्भुवि जनिष्यमाणः खलः कमीशदयिते पुरा न विदितस्तवायं जनः । व्रतं कृतमिदं त्वया परमसाहसोपेतया क्वा वा जननि योषितां जगति दीर्घमालोचनम् ॥ २३॥ इहापुरधमर्षणान्ययश एव भूत्वा मुधा व्यलोकि नियमैस्तथा न बहुलैश्चा कश्चिज्जयः । स्थिरं न मदधक्षये मदधतेजसा भूयसा व्रतं च तव कुण्ठितं यदि ममैव कीर्तिः परा ॥ २४॥ क्षये यदि मदेनसामसुकरे न धीरं मनो न ते नगपतेः सुते किमपि चिन्त्यमेतत्कृते । व्रतं विसृज तन्मुधा ननु वधूस्वभावात्कृतं स्थिरीभवतु दुर्विधिर्भुवि तव प्रसदाद्बली ॥ २५॥ कृतं परमयत्नश्चिरमनुज्झितं श्रद्धया भृतं बहुविधोद्यमैरविजितं महापातकैः । गतं धनतरं यशो जयति पापजातं मम् व्रतं च तव तादृशं जननि कस्य वा स्याज्जयः ॥ २६॥ मदीयदुरितावलिप्रलयकालकादम्बिनी मदोन्नतविजृम्भणं वृजनभङ्गबद्धव्रते । भवप्रियतमे निजप्रबलहुङ्कृतिप्रोद्धत - प्रभञ्जनमहौजसा शमय पालयात्मव्रतम् ॥ २७॥ अधक्षयविधौ तु ते परिणता परीपक्वता विभेदकथनं कथं पॄथुलवैभवे युज्यते । इदं तव विगर्हणं परिणतैनसं वा स्तुति - र्मनो यदि मृडानि ते जगति साध्यमेवाखिलम् ॥ २८॥ सहस्रनयनादिभिः सुरवरैः समाराधिता सहस्रकिरणप्रभा सितमरीचिशीता मम । सहस्रदलपङ्कजे कृतनिकेतना देहिनां सहस्रदललोचना दुरितसन्ततिं कृन्ततु ॥ २९॥ सरोजभवसंस्तुता सकललोकराज्येश्वरी करोपमितपल्लवा करुणयान्तरुल्लोलिता । उरोरुहभरालसा मयपुरारिसम्मोहिनी करोतु मदघक्षयं कुमुदलोचना काचन ॥ ३०॥ चतुर्थं दशकम् (शार्दूलविक्रीडितवृत्तम्) कालाम्भोधरचारुसान्द्रकबरि पूर्णेन्दुबिम्बानना ताटङ्कद्युतिधौतगण्डफलका ताम्बूलरक्ताधरा । प्रालेयद्युतिबालकेन रचितोत्तंसा हराङ्कासना शान्ता नूतनपल्लवाभचरणा भूत्यै शिवा चिन्त्यते ॥ ३१॥ श्रीपादं तवशैलराजदुहितः भास्वत्करास्फालन - प्रोद्भुद्धाम्बुजसुन्दरं श्रुतिवधूचूडातटीलालितम् । वन्दन्तां त्रिदिवौकसो वशमितः संवाहयत्वीश्वरो योगी ध्यायतु वन्दिवद्भगवति प्रस्तौति सोऽयं जनः ॥ ३२॥ यस्याश्चामरधारिणी सरसिजप्रासादसञ्चारिणी वाग्देवी हृदयेश्वरप्रभृतयो नाकौकसः किङ्कराः । देवः कैरवबन्धुकोरकधरो लीलासहायः सखा तस्याः पादसरोजवन्दिपदवीं पाप्तोऽस्म्यहं भाग्यतः ॥ ३३॥ पादस्य क्रियते क्षणान्तकतिचन ध्यानं जगद्धात्रि ते यत्तस्येभघटाकुलाङ्गनमहीश्रीर्नानुरुपं फलम् । नोद्गारो मधुमाधुरिमदमुषां स्वाभाविको वा गिरां साधीयस्तु फलं यदीश्वरि पुनर्ध्यातुं मतिर्जायते ॥ ३४॥ देवि त्वच्चरणारविन्दयुगलध्यानस्य केचित्फलं मन्यन्ते रथवाजिसामजवधूसौधादिरूपां श्रियम् । पीयूषद्रवसारवैभवमुषां वाचां परे पाटवं प्राज्ञाः साधनमादितः परिणतौ पाहुः फलं तत्स्वयम् ॥ ३५॥ लोभः कुत्रचिदस्ति कुत्रचिदसौ रोषः परं भीषणः कुत्राप्येष मनोभवोऽतिमलिने स्वान्ते निशान्ते मम । एतस्याप्यहहाद्रिराजतनुजे कोणे त्वदीयं पदं खेटीमस्तकलालितं शुचितमं वाञ्छामि कर्तुं खलः ॥ ३६॥ कन्दर्पेण निवारितं प्रहसता लोभेन निर्भर्त्सितं मात्सर्येण तिरस्कृतं मदमहानागेन चाऽभिद्रुतम् । दुर्भ्रान्त्या गलहस्ति तं बत पुनः क्रोधेन धूतं बला - दप्येतत्पदमम्ब ते विशति मे चेतोऽस्य वर्ण्या कृपा ॥ ३७॥ उद्दीप्यन्नखरांशुजालजटिलस्त्वत्पादकण्ठीरवो यावन्मीलितलोचनः शशिकलाचूडामणेर्वल्लभे । तावल्लोभकटिप्रखेलति मुदं पुष्णाति कामद्विपो रोषद्वीपिपतिश्च गर्जतितरां मन्मानसे कानने ॥ ३८॥ चाञ्चल्यं हृदयस्य नश्यन्ति कथं युष्मत्प्रसादं विना त्वं वा देवि कथं प्रसीदसि यदि स्थैर्यादपेतं मनः । अन्योन्याश्रयदोष एष सुमहानन्यं विधिं स्थापय - त्यस्माकं वरदे तवोत करुणां निर्हेतुकां जन्तुषु ॥ ३९॥ भक्तिर्मे त्वयि भर्गपत्नि महती ध्यातुं च वाञ्छामि ते पादाम्भोजयुगं तथापि चलतां चेतो न मे मुञ्चति । कामाः सन्ति सहस्रशो नगसुते पश्चाद्ब्रवीम्यग्रतः चित्तस्य स्थिरतां प्रदेहि करुणा यद्यस्ति ते वस्तुतः ॥ ४०॥ पञ्चमं दशकम् (सुबोधितावृत्तम्) उडुराजकलाकलापकान्ते सदये सुन्दरि कोमलाङ्गि मातः । श्रुतिपद्मदृशावतंसितं ते पदपद्मं प्रतिभातु मानसे मे ॥ ४१॥ अरुणाचलनाथसद्मनाथे चरितं ते चरणस्य धात्रि चित्रम् । क्रियतेऽब्जसनाभिनामुना यद्गतपङ्के मुनिमानसे निवासः ॥ ४२॥ चरितं चरणाम्बुजन्मनस्ते परमं विस्मयमातनोति मातः । अतिरागवदप्यदो विधते सहवासेन यदन्तरं विरागम् ॥ ४३॥ भवभामिनि कर्मशर्मदातुः भवदीयस्य पदस्य विस्मयाय । अपि धूलिविधूसरं विधत्ते यदिदं वीतरजो मनो मुनीनाम् ॥ ४४॥ चरणं जगदम्ब कैटभारिर्यतमानोऽपि ददर्श नैव यस्य । स हरस्तव दृश्यते विलग्नश्चरणे चण्डि चराचराधिनाथः ॥ ४५॥ कमलासनकञ्जलोचनादीनवमत्य त्रिदशान्नगेशकन्ये । अगुणे रमसे नगेऽत्र शोणे क्व गुणान् पश्यति जातिपक्षपातः ॥ ४६॥ कुसुमादपि कोमलं वपुस्ते हृदयेशस्त्वरुणो गिरिः कठोरः । प्रचलाखुतुरङ्गमस्य मातः समनुध्याय बिभेमि चेतसेदम् ॥ ४७॥ यदसौ विहितः सितोऽरुणाद्रिस्तव हासेन सितेन नात्र चित्रम् । इदमद्भुतमस्य मानसं यद्विमलं पार्वति नीयतेऽतिरागम् ॥ ४८॥ नवकुङ्कुमरेणुपङ्किलस्य स्मरणात्ते सततं स्तनाचलस्य । स्वयमप्यचलो बभूव शोणः शशिधारी जगतं सवित्रि शङ्के ॥ ४९॥ स्मरणादरुणाचलस्य मुक्त्तिः कथमश्लीलकपालभूषणस्य । वपुषोऽधर्ममुष्य चेन्नचेतस्तिमिरध्वंसिनि सर्वमङ्गले त्वम् ॥ ५०॥ षष्ठं दशकम् (तूणकवृत्तम्) गौरि चण्डि कालिके गणाधिनायकाम्बिके स्कन्दमातरिन्दुखण्डशेखरे परात्परे । व्रजनायिके प्रपञ्चराज्ञि हैमवत्युमे भर्गपत्नि पालयेति गीयतां सदा सखे ॥ ५१॥ वासुदेवमुख्यनित्यदेवमौलिविस्फुर- द्रत्रजालरश्मिजातरञ्जिताङ्ध्रिपङ्कजे । शीतभानुबालचूडचित्तबालडोलिके शैलपालबालिके सदा वदामि नाम ते ॥ ५२॥ कल्पवल्लि गायतां नितम्बिनीमतल्लिके नाम ते विपश्चितो निरन्तरं गृणन्ति ये । दैत्यजैत्रि लोकधात्रि रात्रिराण्णिभानने शैलवंशवैजयन्ति जन्तवो जयन्ति ते ॥ ५३॥ आनने त्वदीयनाम पावनाच्च पावनं यस्य पुण्यपूरुषस्य पूरुषार्धविग्रहे । सानुमन्महेन्द्रपुत्रि सम्मदाय भूयसे बन्धनालयोऽपि तस्य नन्दनं वनं यथा ॥ ५४॥ नामकीर्तनेषु या षडाननस्य षड्विधात् शब्दतोऽपि भाषितात्पृथक्पदाभिशोभितात् । उन्नतैकनादतो गजाननस्य बॄंहितात् तृप्तिमेति पुत्रयोः समापि सा जयत्युमा ॥ ५५॥ मुग्धमित्रमानसे महान्धकारबन्धुरे निद्रितमुमां निजे बहिर्गवेषयस्यहो । तत्प्रविश्य पश्य वेददीपकेन तां ततः तारशब्दबोधितां विधाय साधयामृतम् ॥ ५६॥ आदिमो विभोः सुतो यदीयमूलमाश्रितः कुञ्जराननो बिभर्ति सालतातनौ तता । अग्रतो दधाति किञ्चिदम्बुजं मरन्दव - त्तत्र शक्त्तिरुत्तमा प्रबोधयन्ति तां विदः ॥ ५७॥ द्वादशान्तशायिनी हृदम्बुजान्तरस्थिता मण्डलद्वयालया सिताद्रिशृगचारिणी । सर्वभूतजालभर्तुरासनार्धभागिनी भूतिमुत्तमां तनोतु भुभृतः सुता तव ॥ ५८॥ क्षत्रमर्दन्प्रसूरसूरिलोकदुर्गमा दुर्गमाटवीविहारलालसा मदालसा । नित्यशक्त्तिपौरुषा ममाङ्घ्रिमूलवासिनः । सत्यकीर्तिरार्तिजालहारिणी हरत्वधम् ॥ ५९॥ शक्त्तिधारिणः सवित्रि सर्वशक्त्तिमत्युमे भक्तिमज्जनोग्रपापनिग्रहे धृतग्रहे । देवमौलिरत्नकान्तिधौतपादुकाय ते सर्वमङ्घ्रये मदियमात्मना सहार्प्यते ॥ ६०॥ सप्तमं दशकम् (मदालसावृत्तम्) जम्भारिमुख्यसुरसम्भाविता बहुलदम्भात्मनामसुलभा पुम्भावदृप्तसनिशुम्भादिबन्धुगणशुम्भासुरेन्द्रदमनी कुम्भापहासिकुचकुम्भानघोरुजितरम्भाऽनुरक्तहृदया शम्भाविभेन्द्रमुखडिम्भा करोतु तव शं भामिनीमणिरुमा ॥ ६१॥ तारावलीतुलितहारालिशोभिकुचभाराऽलसालसगतिः धाराधराभकचभारा सुपर्वरिपुवीराभिमानशमनी । नीराटकेतुशरधाराभदृष्टिरतिधीरा धराधरसुता वाराणसीवसति वाराशितूणरतिराराध्यतामयि सखे ॥ ६२॥ ख्याता मुनीन्द्रजनगीता मयूरहयपोताऽतिचित्रचरिता शीताचलाचिपतिजाता प्रभातयमताताविशेषचरणा । पूता पिनाकधरपीताधरा त्रिदिवपातालभूतलजुषां सा तापजातमविगीताऽखिलं हरतु माता कटाक्षकलया ॥ ६३॥ खण्डामृतद्युतिशिखण्डा महोग्रतरभण्डादिदैत्यदमनी चण्डाऽनलाढ्यकुलकुण्डालया विहितदण्डा खलाय भुवने । शुण्डालभूमिपतितुण्डधिभूततरुषण्डा चलाण्डघटमृत्- पिण्डायिता सकलपिण्डान्तरस्थमणिभाण्डायिताऽस्तु शरणम् ॥ ६४॥ राकासुधाकरसमाकारहासधुतभीका भवाब्धितरणे नौका कटाक्षधुतशोका महामहिमपाकारिणाऽपि विनुता । एकाम्बिका सकललोकावलेरचलतोकायिताखिलघन- श्रीकानतस्य मम सा कालिका कमलनीकाशदृक् दिशतु शम् ॥ ६५॥ नीलालका मधुरशीला विधूतरिपुजाला विलसवसतिः लोला दृशोः कनकमालावती विबुधलीलावतीपरिवृत । किलालजाप्तमुखहेला जितामृतकरेमातले निवसतां शालारुचामजिनचेलाऽबला कपटकोलानुजा दिशतु शम् ॥ ६६॥ अव्यादुदारतरपव्यायुधप्रभृतिहव्याशिर्कीर्तितगुणा गव्याज्यसम्मिलितकव्याशिलोकनुतभव्याऽतिपावनकथा । श्रव्या सदा विविधनव्यावतारवरकव्यारभट्यभिरता दिव्याकृतिस्तरुणव्याभपादखिलमव्यात्मजा तव कुलम् ॥ ६७॥ दोषाकरार्भकविभूषा कटाक्षधुतदोषा निरन्तरमन - स्तोषा परा कलुषिकाषायधारियतिवेषाऽनवाप्यचरणा । भाषावधूदयितशेषाहिशायिविनुतैषा विषादशमनी पोषाय पापततिशोषाय चास्तु कुलयोषा भवस्य भवताम् ॥ ६८॥ वन्दारुसाधुजनमन्दारवल्लिरविन्दाभदीर्घनयना कुन्दालिकल्परदबृन्दा पदाब्जनतबृन्दारकेन्दुवदना । मन्दा गतावलममन्दा मतौ जितमुकुन्दासुरप्रशमनी नन्दात्मजा दिशतु शं दारुणाधततिभिन्दाननामनिवहा ॥ ६९॥ श्यामा कदम्बवनधामा भवार्तिहरनामा नमज्जनहिता भीमा रणेषु सुरभामावतंससुमदामानुवासितपदा । कामाहितस्य कृतकामा किलालमभिरामा रमालयमुखी क्षेमाय ते भवतु वामा कदम्बकललामायिता भगवती ॥ ७०॥ अष्टमं दशकम् (द्रुतविलम्बितवृत्तम्) जलरुहं दहरं समुपाश्रिता जलचरध्वजसूदनसुन्दरी । हरतु बोधदृगावरणं तमो हृदयगं हसितेन सितेन मे ॥ ७१॥ नमदमर्त्यकिरीटकृतैः किणैः कमठपृष्ठनिभे प्रपदेऽङ्किता । अजिनचेलवधूर्विदधातु वो वृजिनजालमजालमविक्रमम् ॥ ७२॥ ललितया नतपालनलोलया प्रमथनाथमनोहरलीलया । किरिमुखीमुखशक्त्युपजीव्यया विदितयादितया गतिमानहम् ॥ ७३॥ अमृतदीधितिपोवतंसया कृतपदानतपापनिरासया । गतिमदर्धनरकृतिचित्रया भुवनमेव न मे कुलमार्यया ॥ ७४॥ अगणयं न च गोष्पदवद्यदि त्रिभुवनं कुतले न तरामि किम् । शरणवानहमुत्तमभावया गिरिजयारिजयावितदेवया ॥ ७५॥ सकरुणा कुशलं तव रेणुकातनुरुमा तनुतादुदितो यतः । युधि मुनिर्विदधौ परशुं दधज्जनपतीनपतीव्र भुजामदान् ॥ ७६॥ दशरथात्मजपूजितमीश्वरं विदधती रतिनाथवशं गतम् । दिशतु वः कुशलं नगवर्धिनी हरिहयारिहयान मृगेश्वरा ॥ ७७॥ जननि शुम्भनिशुम्भमहासुरोन्मथन विश्रुतविक्रमया त्वया । जगदरक्ष्यत गोपकुलेशितुः तनुजयानुजयार्जुनसारथेः ॥ ७८॥ चरणयोर्धृतया विजयामहे जगति माररिपुप्रियभामया । शशिकलामलमन्दरहासया नगजया गजयानविलासया ॥ ७९॥ इममगाधिपनन्दिनि कल्किनं रुषमपोह्य हरस्य विलोकितैः । कलुषनाशनभीमदृशोल्लसन्मदनकैरवकैरवलोचने ॥ ८०॥ नवमं दशकम् (आर्यावृय्त्तम्) स जयति पुण्यकुलेषु भ्राम्यन् गणनाथमातुरालोकः । यमनुचरतो जनार्दनकुलतरुणी देवता च गिराम् ॥ ८१॥ कस्य प्रबलप्रतिभटभुजकण्डूवारणं महद्वीर्यम् । कस्य गिरामिह सर्गो युगस्य परिवर्तनेऽपि पटुः ॥ ८२॥ कस्य पुनरन्तरात्मनि सङ्गसहस्रैरचालिता निष्ठा । धूर्जटिदियते युष्मद्दृगन्तभृतमन्तरा धन्यम् ॥ ८३॥ यस्य निदानमविद्या ममकारः पूर्वरूपमङ्कुरितः ॥ रूपं तापत्रितयं सत्सङ्गः किञ्चिदुपशान्तयै ॥ ८४॥ अन्तःकरणं स्थानं प्रकोपनो विषयपञ्चकाभ्यासः । मुक्तिः सुषुप्तिसमये पुनरगमनाय घोराय ॥ ८५॥ लोभाभिलाषरोषाः कफमारुतमायवस्त्रयो दोषाः । अरुचिः पथ्ये भूयस्यनुबन्धोपद्रवो घोरः ॥ ८६॥ तस्य प्रयच्छ शमनं संसाराख्यज्वरस्य भूरिकृपे । मृत्युञ्जयस्य भामिनि भेषजमालोकितं नाम ॥ ८७॥ भवदीयस्य भवानि प्रसिद्धचरिते कटाक्षमेघस्य । प्रावृट्परितापहृतो भव्यामृतवर्षिणः करुणा ॥ ८८॥ राजोग्रदृष्टिरुग्रो युवराजः सन्ततं मदोपेतः । तव राज्ञि न करुणा चेद्भुवनस्य कथं शुभं भवतु ॥ ८९॥ राज्ञि तव दृष्टिरवने विनतानामपि सदैव खेलन्त्याः । तपतोऽपि नित्यमीशो लोलो लिलासु ते भवति ॥ ९०॥ दशमं दशकम् (शशिवदनावृत्तम्) पदकमलाप्त त्रिकलुषहर्त्री । जयति शिवेति त्रिभुवनभर्त्री ॥ ९१॥ अधितनुदृष्टिस्तटिदधिभूतम् । प्रमथपतेः सा सुदृगधिदैवम् ॥ ९२॥ स्वनयनवृतौ स्थिरचरणानाम् । द्विदलसरोजे भगवति भासि ॥ ९३॥ दहरसरोजे निहितपदानाम् । द्विदलसरोजादवतरसि त्वम् ॥ ९४॥ अयि कुलकुण्डे धृतचरणानाम् । दशशतपत्रं व्रजसि तपन्ती ॥ ९५॥ दहरसरोजे दृशमपिहित्वा । विषयपराणां स्खलसि बहिस्त्वम् ॥ ९६॥ स्खलसि यतस्त्वं स भवति हीनः । विलससि यस्मिन् स खलु महात्मा ॥ ९७॥ दृशि दृशि चित्त्वं हृदि हृदि सत्ता । प्रतिनरशीर्षं प्रमदकलाऽसि ॥ ९८॥ तव लहरीषु त्रिपुरविरोधी । किमिव न चित्रं जननि करोति ॥ ९९॥ हरशिरसो गौर्यवसि जगत्त्वम् । गणपतिशीर्षादव मुनिभूमिम् ॥ १००॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिः उमाशतकं समाप्तम्।।
18 पुराणों के नाम और उनका संक्षिप्त परिचय 18 mahapurans all maha purans hindi.shrimad bhagwatall maha purans hindi.shrimad bhagwat.all sanskrit ki jankari , sabhi sanskrit
Subscribe to:
Post Comments (Atom)
इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।
इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...
-
१८ पुराण के नाम और उनका महत्त्व महर्षि वेदव्यास द्वारा रचित 18 पुराणों के बारें में पुराण अठारह हैं। मद्वयं भद्वयं चैव ब्रत्रयं...
-
आख्यानपरक लेखन आख्यायिका का अर्थ की विशेषताएँ बताइए आख्यानपरक लेखन की विशेषताएं बताइए आख्यान meaningआख्यान आख्यान शब्द आरंभ से ही सामान्यत: कथा अथवा कहानी के अर्थ में प्रयुक्त होता रहा है। तारानाथकृत " वाचस्पत्यम् &...
-
स्वस्तिवाचन स्वस्तिवाचन (स्वस्तयन) मन्त्र और अर्थ-- हमारे देश की यह प्राचीन परंपरा रही है कि जब कभी भी हम कोई कार्य प्रारंभ करते है, तो उस...
No comments:
Post a Comment