Saturday, April 1, 2017

ऋद्धिस्तवः all stoeres in Sanskrit


ऋद्धिस्तवः ॥
श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २॥ प्राकारगोपुरवरप्रासादमणिमण्टपाः । शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः ॥ ३॥ रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४॥ कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः । छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६॥ मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च । काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७॥ कोमलानि च दामानि कुसुमैस्सौरभोत्करैः । धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु[च] सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९॥ कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् । सूपापूपघृतक्षीरशर्करासहितं हविः ॥ १०॥ घनसारशिलोदग्रैः क्रमुकाष्टदलैस्सह । विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो ॥ ११॥ प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव । भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा ॥ १२॥ वरणीधनरत्नानि वितरन्तु चिरं तव । कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १३॥ प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम् । महान्तस्सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ॥ १४॥ एवमेव भवेन्नित्यं पालयन् कुशली भवान् । मामहीरमण श्रीमान् वर्धतामभिवर्धताम् ॥ १५॥ पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्छ्यम् । प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान् ॥ १६॥ ॥ इति ऋद्धिस्तवः सम्पूर्णः ॥

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...