Friday, April 14, 2017

कल्याणवृष्टिस्तवः

कल्याणवृष्टिस्तवः । ॥

 कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे । सान्निध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २॥ ईशात्वनामकलुषाः कति वा न सन्ति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३॥ लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४॥ ह्रींकारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे । त्वत्संस्मृतौ यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५॥ हन्तुः पुरामधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्यवेगः । नाश्वासनाय यदि मातरिदं तवार्धं देवस्य शश्वदमृताप्लुतशीतलस्य ॥ ६॥ सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किं च स्फुरन्मुकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ ७॥ कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८॥ हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ ९॥ लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- मालोकय त्रिपुरसुन्दरि मां कदाचित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न च जायते वा ॥ १०॥ ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिहत्रिपुराधिवासे । मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२॥ कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३॥ लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुङ्कुम पङ्कशोणम् । भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४॥ ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति । त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसम्भवादेः ॥ १५॥ ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कल्याणवृष्टिस्तवः सम्पूर्णः ॥कल्याणवृष्टिभिरिवामृतपूरिताभि- र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः । सेवाभिरम्ब तव पादसरोजमूले नाकारि किं मनसि भाग्यवतां जनानाम् ॥ १॥ एतावदेव जननि स्पृहणीयमास्ते त्वद्वन्दनेषु सलिलस्थगिते च नेत्रे । सान्निध्यमुद्यदरुणायुतसोदरस्य त्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २॥ ईशात्वनामकलुषाः कति वा न सन्ति ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः । एकः स एव जननि स्थिरसिद्धिरास्ते यः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३॥ लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं कारुण्यकन्दलितकान्तिभरं कटाक्षम् । कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः संमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४॥ ह्रींकारमेव तव नाम गृणन्ति वेदा मातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे । त्वत्संस्मृतौ यमभटाभिभवं विहाय दीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५॥ हन्तुः पुरामधिगलं परिपीयमानः क्रूरः कथं न भविता गरलस्यवेगः । नाश्वासनाय यदि मातरिदं तवार्धं देवस्य शश्वदमृताप्लुतशीतलस्य ॥ ६॥ सर्वज्ञतां सदसि वाक्पटुतां प्रसूते देवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः । किं च स्फुरन्मुकुटमुज्ज्वलमातपत्रं द्वे चामरे च महतीं वसुधां ददाति ॥ ७॥ कल्पद्रुमैरभिमतप्रतिपादनेषु कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः । आलोकय त्रिपुरसुन्दरि मामनाथं त्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८॥ हन्तेतरेष्वपि मनांसि निधाय चान्ये भक्तिं वहन्ति किल पामरदैवतेषु । त्वामेव देवि मनसा समनुस्मरामि त्वामेव नौमि शरणं जननि त्वमेव ॥ ९॥ लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना- मालोकय त्रिपुरसुन्दरि मां कदाचित् । नूनं मया तु सदृशः करुणैकपात्रं जातो जनिष्यति जनो न च जायते वा ॥ १०॥ ह्रींह्रीमिति प्रतिदिनं जपतां तवाख्यां किं नाम दुर्लभमिहत्रिपुराधिवासे । मालाकिरीटमदवारणमाननीया तान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदाननिरतानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु नान्यम् ॥ १२॥ कल्पोपसंहृतिषु कल्पितताण्डवस्य देवस्य खण्डपरशोः परभैरवस्य । पाशाङ्कुशैक्षवशरासनपुष्पबाणा सा साक्षिणी विजयते तव मूर्तिरेका ॥ १३॥ लग्नं सदा भवतु मातरिदं तवार्धं तेजः परं बहुलकुङ्कुम पङ्कशोणम् । भास्वत्किरीटममृतांशुकलावतंसं मध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४॥ ह्रींकारमेव तव नाम तदेव रूपं त्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति । त्वत्तेजसा परिणतं वियदादिभूतं सौख्यं तनोति सरसीरुहसम्भवादेः ॥ १५॥ ह्रींकारत्रयसम्पुटेन महता मन्त्रेण सन्दीपितं स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् । तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कल्याणवृष्टिस्तवः सम्पूर्णः ॥

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...