Friday, April 14, 2017

kAkinyaShTottarasahasranAmastotra .. ॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र



.. kAkinyaShTottarasahasranAmastotra ..


॥ काकिन्यष्टोत्तरसहस्रनामस्तोत्र ॥ श्रीगणेशाय नमः । श्रीआनन्दभैरव उवाच । वद कल्याणि कामेशि त्रैलोक्यपरिपूजिते । ब्रह्माण्डानन्तनिलये कैलासशिखरोज्ज्वले ॥ १ ॥ कालिके कालरात्रिस्थे महाकालनिषेविते । शब्दब्रह्मस्वरूपे त्वं वक्तुमर्हसि सादरात् ॥ २ ॥ सहस्रनामयोगाख्यम् अष्टोत्तरमनन्तरम् । अनन्तकोटिब्रह्माण्डं सारं परममङ्गलम् ॥ ३ ॥ ज्ञानसिद्धिकरं साक्षाद् अत्यन्तानन्दवर्धनम् । सङ्केतशब्दमोक्षार्थं काकिनीश्वरसंयुतम् ॥ ४ ॥ परानन्दकरं ब्रह्म निर्वाणपदलालितम् । स्नेहादभिसुखानन्दादादौ ब्रह्म वरानने ॥ ५ ॥ इच्छामि सर्वदा मातर्जगतां सुरसुन्दरि । स्नेहानन्दरसोद्रेकसम्बन्धान् कथय द्रुतम् ॥ ६ ॥ श्रीआनन्दभैरवी उवाच ईश्वर श्रीनीलकण्ठ नागमालाविभूषितः । नागेन्द्रचित्रमालाढ्य नागाधिपरमेश्वरः ॥ ७ ॥ काकिनीश्वरयोगाढ्यं सहस्रनाम मङ्गलम् । अष्टोत्तरं वृताकारं कोटिसौदामिनीप्रभम् ॥ ८ ॥ आयुरारोग्यजननं शृणुष्वावहितो मम । अनन्तकोटिब्रह्माण्डसारं नित्यं परात्परम् ॥ ९ ॥ साधनं ब्रह्मणो ज्ञानं योगानां योगसाधनम् । सार्वज्ञगुह्यसंस्कारं संस्कारादिफलप्रदम् ॥ १० ॥ वाञ्छासिद्धिकरं साक्षान्महापातकनाशनम् । महादारिद्र्यशमनं महैश्वर्यप्रदायकम् ॥ ११ ॥ जपेद्यः प्रातरि प्रीतो मध्याह्नेऽस्तमिते रवौ । नमस्कृत्य जपेन्नाम ध्यानयोगपरायणः ॥ १२ ॥ काकिनीश्वरसंयोगं ध्यानं ध्यानगुणोदयम् । आदौ ध्यानं समाचर्य निर्मलोऽमलचेतसा ॥ १३ ॥ ध्यायेद् देवीं महाकालीं काकिनीं कालरूपिणीम् । परानन्दरसोन्मत्तां श्यामां कामदुघां पराम् ॥ १४ ॥ चतुर्भुजां खड्गचर्मवरपद्मधरां हराम् । शत्रुक्षयकरीं रत्नाऽलङ्कारकोटिमण्डिताम् ॥ १५ ॥ तरुणानन्दरसिकां पीतवस्त्रां मनोरमाम् । केयूरहारललितां ताटङ्कद्वयशोभिताम् ॥ १६ ॥ ईश्वरीं कामरत्नाख्यां काकचञ्चुपुटाननाम् । सुन्दरीं वनमालाढ्यां चारुसिंहासनस्थिताम् ॥ १७ ॥ हृत्पद्मकर्णिकामध्याकाशसौदामिनीप्रभाम् । एवं ध्यात्वा पठेन्नाममङ्गलानि पुनः पुनः ॥ १८ ॥ ईश्वरं कोटिसूर्याभं ध्यायेद्धृदयमण्डले । चतुर्भुजं वीररूपं लावण्यं भावसम्भवम् ॥ १९ ॥ श्यामं हिरण्यभूषाङ्गं चन्द्रकोटिसुशीतलम् । अभयं वरदं पद्मं महाखड्गधरं विभुम् ॥ २० ॥ किरीटिनं महाकायं स्मितहास्यं प्रकाशकम् । हृदयाम्बुजमध्यस्थं नूपुरैरुपशोभितम् ॥ २१ ॥ कोटिकालानलं दीप्तं काकिनीदक्षिणस्थितम् । एवं विचिन्त्य मनसा योगिनं परमेश्वरम् ॥ २२ ॥ ततः पठेत् सहस्राख्यं वदामि शृणु तत्प्रभो ॥ २३ ॥ अस्य श्रीकाकिनीश्वरसहस्रनामस्तोत्रस्य ब्रह्माऋषि , गायत्रीच्छन्दः , जगदीश्वर काकिनी देवता , निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः । ॐ ईश्वरः काकिनीशान ईशान कमलेश्वरी । ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥ २४ ॥ ईशमोक्षः कामधेनुः कपर्दीशः कपर्दिनी । कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी ॥ २५ ॥ कलादेशः सुकविता कारणः करुणामयी । कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥ २६ ॥ किरातरूपी कैवल्या किरणः कामनाशना । कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा ॥ २७ ॥ किशोरः कीशुनमिता केशवेशः कुलेश्वरी । केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥ २८ ॥ करकोटिधरः कूटा क्रियाक्रूरः क्रियावती । कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥ २९ ॥ कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना । कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥ ३० ॥ कुणपः कौलपाकाशा स्वकान्तः कामवासिनी । सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥ ३१ ॥ कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला । कुमारः केशरी विद्या कामहा कुलपण्डिता ॥ ३२ ॥ कल्कीशः कमनीयाङ्गी कुशलः कुशलावती । केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥ ३३ ॥ कुसुमानन्दमालाढ्यः कुसुमामलमालिका । कवीन्द्रः काव्यसम्भूतः काममञ्जीररञ्जिनी ॥ ३४ ॥ कुशासनस्थः कौशल्याकुलपः कल्पपादपा । कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥ ३५ ॥ कठोरस्थः काचनिभा करालः कालवासिनी । कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥ ३६ ॥ कटधूमाकृतिच्छायो विकटासनसंस्थिता । कायधारी कूपकरी करवीरागतः कृषी ॥ ३७ ॥ कालगम्भीरनादान्ता विकलालापमानसा । प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥ ३८ ॥ भगवान् वारुणीवर्णा विवर्णो वर्णरूपिणी । सुवर्णवर्णो हेमाभो महान् महेन्द्रपूजिता ॥ ३९ ॥ महात्मा महतीशानी महेशो मत्तगामिनी । महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥ ४० ॥ महादेवो महादेवी महानन्दो महाकला । महाकालो महाकाली महाबलो महाबला ॥ ४१ ॥ महामान्यो महामान्या महाधन्यो महाधनी । महामालो महामाला महाकाशो महाकाशा ॥ ४२ ॥ महायशो महायज्ञा महाराजो महारजा । महाविद्यो महाविद्या महामुख्यो महामखी ॥ ४३ ॥ महारात्रो महारात्रिर्महाधीरो महाशया । महाक्षेत्रो महाक्षेत्रा कुरुक्षेत्रः कुरुप्रिया ॥ ४४ ॥ महाचण्डो महोग्रा च महामत्तो महामतिः । महावेदो महावेदा महोत्साहो महोत्सवा ॥ ४५ ॥ महाकल्पो महाकल्पा महायोगो महागतिः । महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥ ४६ ॥ महावाक्यो महावाणी महायज्वा महाजवा । महामूर्तीर्महाकान्ता महाधर्मो महाधना ॥ ४७ ॥ महामहोग्रो महिषी महाभोग्यो महाप्रभा । महाक्षेमो महामाया महामाया महारमा ॥ ४८ ॥ महेन्द्रपूजिता माता विभालो मण्डलेश्वरी । महाविकालो विकला प्रतलस्थललामगा ॥ ४९ ॥ कैवल्यदाता कैवल्या कौतुकस्थो विकर्षिणी । वालाप्रतिर्वालपत्नी बलरामो वलाङ्गजा ॥ ५० ॥ अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी । पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥ ५१ ॥ प्रपञ्चः पञ्चरसगा निष्प्रपञ्चः कृपामयी । कामरूपी कामरूपा कामक्रोधविवर्जिता ॥ ५२ ॥ कामात्मा कामनिलया कामाख्या कामचञ्चला । कामपुष्पधरः कामा कामेशः कामपुष्पिणी ॥ ५३ ॥ महामुद्राधरो मुद्रा सन्मुद्रः काममुद्रिका । चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा ॥ ५४ ॥ चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरूपिणी । सूर्याभो वीरकिरणा सूर्यकोटिविभाविता ॥ ५५ ॥ मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया । प्रजापतीशः कल्याणी दक्षेशः कुलरोहिणी ॥ ५६ ॥ अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता । काश्यपेशः काश्यपेशी भृग्वीशो भार्गवेश्वरी ॥ ५७ ॥ वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा । पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता ॥ ५८ ॥ अगस्त्यार्च्योऽगस्त्यमाता प्रह्लादेशो वलीश्वरी । कर्दमेशः कर्दमाद्या बालको बालपूजिता ॥ ५९ ॥ मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती । रूपातीता रूपशून्या विरूपो रूपमोहिनी ॥ ६० ॥ विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी । रसज्ञो रसिकानन्दा विरसो रसवर्जिता ॥ ६१ ॥ सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया । दुर्वाशाः प्राणनिलयः साङ्ख्ययोगसमुद्भवा ॥ ६२ ॥ असङ्ख्येयो मांसभक्षा सुमांसाशी मनोरमा । नरमांसविभोक्ता च नरमांसविनोदिनी ॥ ६३ ॥ मीनवक्त्रप्रियो मीना मीनभुङ्मीनभक्षिणी । रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥ ६४ ॥ पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता । विधातृवरदो वेद्या वेदो वेदकुमारिका ॥ ६५ ॥ श्यामेशो सितवर्णा च चासितोऽसितरूपिणी । महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया ॥ ६६ ॥ आसवाढ्योऽमनादेवी निर्मलासवपामरा । विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी ॥ ६७ ॥ मणिमालाधरो मालामातृकेशः प्रसन्नधीः । जरामृत्युहरो गौरी गायनस्थो जरामरा ॥ ६८ ॥ सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो हृद्गता सती । अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी ॥ ६९ ॥ मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी । मन्त्रार्थचैतन्यकरो मन्त्रसिद्धिप्रकाशिनी ॥ ७० ॥ मन्त्रज्ञो मन्त्रनिलया मन्त्रार्थामन्त्रमन्त्रिणी । बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा ॥ ७१ ॥ मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा । बीजस्वरूपो बीजेशी बीजमालेऽति बीजिका ॥ ७२ ॥ बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी । बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी ॥ ७३ ॥ महाबीजधरो बीजा बीजाढ्या बीजवल्लभा । मेघमाला मेघमालो वनमाली हलायुधा ॥ ७४ ॥ कृष्णाजिनधरो रौद्रा रौद्री रौद्रगणाश्रया । रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा ॥ ७५ ॥ विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा । नारदेशः प्रधानेशी वारणेशो वनेश्वरी ॥ ७६ ॥ कृष्णेश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना । कामेश्वरो राघवेशी बालेशी वा बाणपूजितः ॥ ७७ ॥ भवानीशो भवानी च भवेन्द्रो भववल्लभा । भवानन्दोऽतिसूक्ष्माख्या भवमूतीर्भवेश्वरी ॥ ७८ ॥ भवच्छायो भवानन्दो भवभीतिहरो वला । भाषाज्ञानीभाषमाला महाजीवोऽतिवासना ॥ ७९ ॥ लोभापदो लोभकर्त्री प्रलोभो लोभवर्धिनी । मोहातीतो मोहमाता मोहजालो महावती ॥ ८० ॥ मोहमुद्गरधारी च मोहमुद्गरधारिणी । मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी ॥ ८१ ॥ कामलापकरोऽकामा सत्कामो कामनाशिनी । बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचना ॥ ८२ ॥ पद्ममालः पद्ममाला श्रीदेवो देवरक्षिणी । असितोऽप्यसिता चैव आह्लादो देवमातृका ॥ ८३ ॥ नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा । नारायणेश्वरः कीर्तिः सत्कीर्तिः कीर्तिवर्धिनी ॥ ८४ ॥ कार्तिकेशः कार्तिकी च विकर्ता गहनाश्रया । विरक्तो गरुडारूढा गरुडस्थो हि गारुडी ॥ ८५ ॥ गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा । गौराङ्गेशो गौरकन्या गङ्गेशः प्राङ्गणेश्वरी ॥ ८६ ॥ प्रतिकेशो विशाला च निरालोको निरीन्द्रिया । प्रेतबीजस्वरूपश्च प्रेताऽलङ्कारभूषिता ॥ ८७ ॥ प्रेमगेहः प्रेमहन्त्री हरीन्द्रो हरिणेक्षणा । कालेशः कालिकेशानी कौलिकेशश्च काकिनी ॥ ८८ ॥ कालमञ्जीरधारी च कालमञ्जीरमोहिनी । करालवदनः काली कैवल्यदानदः कथा ॥ ८९ ॥ कमलापालकः कुन्ती कैकेयीशः सुतः कला । कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥ ९० ॥ कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा । कुलजिह्वः कुलानन्दा कृष्णः कृष्णसमुद्भवा ॥ ९१ ॥ कृष्णेशः कृष्णमहिषी काकस्थः काकचञ्चुका । कालधर्मः कालरूपा कालः कालप्रकाशिनी ॥ ९२ ॥ कालजः कालकन्या च कालेशः कालसुन्दरी । खड्गहस्तः खर्पराढ्या खरगः खरखड्गनी ॥ ९३ ॥ खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी । गीतप्रियो गायनस्था गणपालो गृहाश्रया ॥ ९४ ॥ गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा । गारुडीशो हि गान्धर्वी गतीशो गार्हवह्निजा ॥ ९५ ॥ गणगन्धर्वगोपालो गणगन्धर्वगो गता । गभीरमानी सम्भेदो गभीरकोटिसागरा ॥ ९६ ॥ गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः । गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा ॥ ९७ ॥ गन्धमोहितसर्वाङ्गो गन्धचञ्चलमोहिनी । गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता ॥ ९८ ॥ गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता । गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता ॥ ९९ ॥ गन्धमादनसम्भूतपुष्पमाल्यविभूषितः । रत्नाद्यशेषालङ्कारमालामण्डितविग्रहः ॥ १०० ॥ स्वर्णाद्यशेषालङ्कारहारमालाविमण्डिता । करवीरा युतप्रख्यरक्तलोचनपङ्कजः ॥ १०१ ॥ जवाकोटिकोटिशत चारुलोचनपङ्कजा । घनकोटिमहानास्य पङ्कजालोलविग्रहा ॥ १०२ ॥ घर्घरध्वनिमानन्दकाव्याम्बुधिमुखाम्बुजा । घोरचित्रसर्पराज मालाकोटिशताङ्कभृत् ॥ १०३ ॥ घनघोरमहानाग चित्रमालाविभूषिता । घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥ १०४ ॥ घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा । घटकोटिकोटिशतसहस्रमङ्गलासना ॥ १०५ ॥ घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा । घातको रिपुकोटीनां शुम्भादीनां तथा सताम् ॥ १०६ ॥ घातिनीदैत्यघोराश्च शङ्खानां सततं तथा । चार्वाकमतसङ्घातचतुराननपङ्कजः ॥ १०७ ॥ चञ्चलानन्दसर्वार्थसारवाग्वादिनीश्वरी । चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत् ॥ १०८ ॥ चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा । चन्द्रज्योत्स्नायुतप्रख्यहारभूषितमस्तकः ॥ १०९ ॥ चन्द्रबिम्बसहस्राभायुतभूषितमस्तकः । चारुचन्द्रकान्तमणिमणिहारायुताङ्गभृत् ॥ ११० ॥ चन्दनागुरुकस्तूरी कुङ्कुमासक्तमालिनी । चण्डमुण्डमहामुण्डायुतनिर्मलमाल्यभृत् ॥ १११ ॥ चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी । चण्डाट्टहासघोराढ्यवदनाम्भोजचञ्चलः ॥ ११२ ॥ चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा । चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥ ११३ ॥ चलदिन्दुभाषमाणावग्रहखेदचन्द्रिका । चन्द्रार्धकोटिकिरणचूडामण्डलमण्डितः ॥ ११४ ॥ चन्द्रचूडाम्भोजमाला उत्तमाङ्गविमण्डितः । चलदर्कसहस्रान्त रत्नहारविभूषितः ॥ ११५ ॥ चलदर्ककोटिशतमुखाम्भोजतपोज्ज्वला । चारुरत्नासनाम्भोजचन्द्रिकामध्यसंस्थितः ॥ ११६ ॥ चारुद्वादशपत्रादि कर्णिकासुप्रकाशिका । चमत्कारगटङ्कारधुनर्बाणकराम्बुजः ॥ ११७ ॥ चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा । चलदम्बुजनेत्रार्कवह्निचन्द्रत्रयान्वितः ॥ ११८ ॥ चलत्सहस्रसङ्ख्यात पङ्कजादिप्रकाशिका । चमत्काराट्टहासास्य स्मितपङ्कजराजयः ॥ ११९ ॥ चमत्कारमहाघोरसाट्टाट्टहासशोभिता । छायासहस्रसंसारशीतलानिलशीतलः ॥ १२० ॥ छदपद्मप्रभामानसिंहासनसमास्थिता । छलत्कोटिदैत्यराजमुण्डमालाविभूषितः ॥ १२१ ॥ छिन्नादिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी । चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः ॥ १२२ ॥ अस्त्रकास्त्रादिब्रह्मास्त्रसहस्रकोटिधारिणी । अजामांसादिसद्भक्षरसामोदप्रवाहगः ॥ १२३ ॥ छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी । जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः ॥ १२४ ॥ जायागणहृदम्भोज बुद्धिज्ञानप्रकाशिनी । जनार्दनप्रेमभाव महाधनसुखप्रदः ॥ १२५ ॥ जगदीशकुलानन्दसिन्धुपङ्कजवासिनी । जीवनास्थादिजनकः परमानन्दयोगिनाम् ॥ १२६ ॥ जननी योगशास्त्राणां भक्तानां पादपद्मयोः । रुक्षपवननिर्वातमहोल्कापातकारुणः ॥ १२७ ॥ झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी । झनत्कारौघसंहारकरदण्डविशानधृक् ॥ १२८ ॥ झर्झरीनायिकार्य्यादिकराम्भोजनिषेविता । टङ्कारभावसंहारमहाजागरवेशधृक् ॥ १२९ ॥ टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी । टलनानलसङ्घट्टपट्टाम्बरविभूषितः ॥ १३० ॥ टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी । ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः ॥ १३१ ॥ ठं ठं ठं प्रखराह्लादनादसंवादवादिनी । ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः ॥ १३२ ॥ ठं ठं ठं बीजवह्निस्थ हातुकभ्रूविभूषिता । डामरप्रखराह्लादसिद्धिविद्याप्रकाशकः ॥ १३३ ॥ डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा । डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका ॥ १३४ ॥ ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः । ढौं ढौं ढौं ढौकढक्कलं वह्निजायामनुप्रियः ॥ १३५ ॥ ढं ढं ढं ढौं ढ ढं ढ कृत्येत्थाहेति वासिनी । तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥ १३६ ॥ तारिण्यादिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा । तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित् ॥ १३७ ॥ तालवेतालदैतालश्रीतालादिसुसिद्धदा । तरुकल्पलतापुष्पकलबीजप्रकाशकः ॥ १३८ ॥ डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा । अकारकूटविन्द्विन्दुमालामण्डितविग्रहः ॥ १३९ ॥ स्थातृप्रस्थप्रथागाथास्थूलस्थित्यन्तसंहरा । दरीकुञ्जहेममालावनमालादिभूषितः ॥ १४० ॥ दारिद्र्यदुःखदहनकालानलशतोपमः । दशसाहस्रवक्त्राम्भोरुहशोभितविग्रहः ॥ १४१ ॥ पाशाभयवराह्लादधनधर्मादिवर्धिनी । धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा ॥ १४२ ॥ ध्यानयोगज्ञानयोगमन्त्रयोगफलप्रदा । नामकोटिशतानन्तसुकीर्तिगुणमोहनः ॥ १४३ ॥ निमित्तफलसद्भावभावाभावविवर्जिता । परमानन्दपदवी दानलोलपदाम्बुजः ॥ १४४ ॥ प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी । फेरवीगणसन्मानवसुसिद्धिप्रदायकः ॥ १४५ ॥ फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरूपिणी । वराङ्गनाकोटिकोटिकराम्भोजनिसेविता ॥ १४६ ॥ वरदानज्ञानदान मोक्षदातिचञ्चला । भैरवानन्दनाथाख्य शतकोटिमुदान्वितः ॥ १४७ ॥ भावसिद्धिक्रियासिद्धि साष्टाङ्गसिद्धिदायिनी । मकारपञ्चकाह्लादमहामोदशरीरधृक् ॥ १४८ ॥ मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी । यजमानक्रियायोगविभागफलदायकः ॥ १४९ ॥ यशः सहस्रकोटिस्थ गुणगायनतत्परा । रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः ॥ १५० ॥ काकिनीशाकिनीशक्तियोगादि काकिनीकला । लक्षणायुतकोटीन्दुललाटतिलकान्वितः ॥ १५१ ॥ लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता । वातायुतसहस्राङ्गघूर्णायमानभूधरः ॥ १५२ ॥ विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला । श्रीसीतापतिशुद्धाङ्ग व्याप्तेन्द्रनीलसन्निभः ॥ १५३ ॥ शीतनीलाशतानन्दसागरप्रेमभक्तिदा । षट्पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी ॥ १५४ ॥ महोमीस्थषडाधारप्रसन्नहृदयाम्बुजा । श्यामप्रेमकलाबन्धसर्वाङ्गकुलनायकः ॥ १५५ ॥ संसारसारशास्त्रादि सम्बन्धसुन्दराश्रया । ह्सौः प्रेतमहाबीजमालाचित्रितकण्ठधृक् ॥ १५६ ॥ हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता । लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक् ॥ १५७ ॥ लक्ष्मीलक्षजपानन्दसिद्धिसिद्धान्तवर्णिनी । क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः ॥ १५८ ॥ क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तत्रिलोचना । अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी ॥ १५९ ॥ उमेश उटकन्येशी ऋद्धिस्थहृस्थगोमुखी । गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी ॥ १६० ॥ ऐणाचीशप्रियानन्द ऐरावतकुलेश्वरी । ओढ्रपुष्पानन्तदीप्त ओढ्रपुष्पानखाग्रका ॥ १६१ ॥ एहृत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया । अङ्गस्थाङ्गदेवस्था अर्यस्थश्चार्यमेश्वरी ॥ १६२ ॥ मातृकावर्णनिलयः सर्वमातृकलान्विता । मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी ॥ १६३ ॥ अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता । स्थावरानन्ददेवेशो विसर्गान्तरगामिनी ॥ १६४ ॥ अकलङ्को निष्कलङ्को निराधारो निराश्रया । निराश्रयो निराधारो निर्बीजो बीजयोगिनी ॥ १६५ ॥ निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा । आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी ॥ १६६ ॥ सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी । नानादेशसमुद्भूतो नानालङ्कारलङ्कृता ॥ १६७ ॥ नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी । विषयाख्यविषानन्दा विषयाशी विषापहा ॥ १६८ ॥ विषयातीतभावस्थो विषयानन्दघातिनी । विषयच्छेदनास्त्रस्थो विषयज्ञाननाशिनी ॥ १६९ ॥ संसारछेदकच्छायो भवच्छायो भवान्तका । संसारार्थप्रवर्तश्च संसारपरिवर्तिका ॥ १७० ॥ संसारमोहहन्ता च संसारार्णवतारिणी । संसारघटकश्रीदासंसारध्वान्तमोहिनी ॥ १७१ ॥ पञ्चतत्त्वस्वरूपश्च पञ्चतत्त्वप्रबोधिनी । पार्थिवः पृथिवीशानी पृथुपूज्यः पुरातनी ॥ १७२ ॥ वरुणेशो वारुणा च वारिदेशो जलोद्यमा । मरुस्थो जीवनस्था च जलभुग्जलवाहना ॥ १७३ ॥ तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी । तेजस्थस्तेजसो माला तेजः कीर्तिः स्वरश्मिगा ॥ १७४ ॥ पवनेशश्चानिलस्था परमात्मा निनान्तरा । वायुपूरककारी च वायुकुम्भकवर्धिनी ॥ १७५ ॥ वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका । कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी ॥ १७६ ॥ वाय्वाकाशाधाररूपी वायुसञ्चारकारिणी । वायुसिद्धिकरो दात्री वायुयोगी च वायुगा ॥ १७७ ॥ आकाशप्रकरो ब्राह्मी आकाशान्तर्गतद्रिगा । आकाशकुम्भकानन्दो गगनाह्लादवर्धिनी ॥ १७८ ॥ गगनाच्छन्नदेहस्थो गगनाभेदकारिणी । गगनादिमहासिद्धो गगनग्रन्थिभेदिनी ॥ १७९ ॥ कलकर्मा महाकाली कालयोगी च कालिका । कालछत्रः कालहत्या कालदेवो हि कालिका ॥ १८० ॥ कालब्रह्मस्वरूपश्च कालितत्त्वार्थरक्षिणी । दिगम्बरो दिक्पतिस्था दिगात्मा दिगिभास्वरा ॥ १८१ ॥ दिक्पालस्थो दिक्प्रसन्ना दिग्वलो दिक्कुलेश्वरी । दिगघोरो दिग्वसना दिग्वीरा दिक्पतीश्वरी ॥ १८२ ॥ आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका । आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहिनी ॥ १८३ ॥ आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरूपिणी । आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी ॥ १८४ ॥ आत्मविकारहन्ता च विद्यात्मीयादिदेवता । मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी ॥ १८५ ॥ मनोभवनिहन्ता च मनोभवविवर्धिनी । मनश्चान्तरीक्षयोगो निराकारगुणोदया ॥ १८६ ॥ मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी । मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः ॥ १८७ ॥ नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी । नवीनगुणकर्मादिसाकारः खगगामिनी ॥ १८८ ॥ अत्युन्मत्ता महावाणी वायवीशो महानिला । सर्वपापापहन्ता च सर्वव्याधिनिवारिणी ॥ १८९ ॥ द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी । भूषण्डगणतातश्च भूःषण्डरुधिरप्रदा ॥ १९० ॥ काकावलीशः सर्वेशी काकपुच्छधरो जया । अजितेशो जितानन्दा वीरभद्रः प्रभावती ॥ १९१ ॥ अन्तर्नाडीगतप्राणो वैशेषिकगुणोदया । रत्ननिर्मितपीठस्थः सिंहस्था रथगामिनी ॥ १९२ ॥ कुलकोटीश्वराचार्यो वासुदेवनिषेविता । आधारविरहज्ञानी सर्वाधारस्वरूपिणी ॥ १९३ ॥ सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला । इन्द्रेशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी ॥ १९४ ॥ अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी । आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥ १९५ ॥ प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी । मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥ १९६ ॥ सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी । प्रचण्डनयनानन्दो मञ्जीरकलरञ्जिनी ॥ १९७ ॥ कलमञ्जीरपादाब्जो बलमृत्युपरायणा । कुलमालाव्यापिताङ्गः कुलेन्द्रः कुलपण्डिता ॥ १९८ ॥ बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका । कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥ १९९ ॥ अकालजननीनाथो विदग्धात्मा प्रियङ्करी । वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥ २०० ॥ स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी । दन्तुरेशो दन्तुरु च दन्तीशो दर्शनप्रभा ॥ २०१ ॥ दिग्दन्तो हि दिग्दशना भ्रष्टभुक् चर्वणप्रिया । मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥ २०२ ॥ मत्स्यमांसमहामुद्रा रजोरुधिरभुक्प्रिया । सुरामांसमहामीनमुद्रामैथुनसुप्रिया ॥ २०३ ॥ कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा । हृत्कण्ठभ्रूसहस्रारभेदनोऽन्ते विभेदिनी ॥ २०४ ॥ प्रसन्नहृदयाम्भोजः प्रसन्नहृदयाम्बुजा । प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥ २०५ ॥ प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥ २०६ ॥ प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया । प्रभातरविरश्मिगः प्रथमभानुशोभान्विता । प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्गतः । प्रभापटलपाटलप्रचयधर्मपुञ्जाचीता ॥ २०७ ॥ सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता । सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता । गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा । भवार्णवर्गतारको जलधिकर्णधारप्रिया ॥ २०८ ॥ सुरासुरकुलोद्भवः सुररिपुप्रसिद्धिस्थिता सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा । अभीप्सितफलप्रदः सुरवरादिसिद्धिप्रदा प्रियाङ्गज कुलार्थदः सुतधनापवर्गप्रदा ॥ २०९ ॥ शिवस्वशिवकाकिनी हरहरा च भीमस्वना क्षितीश इषुरक्षका समनदर्पहन्तोदया । गुणेश्वर उमापती हृदयपद्मभेदी गतिः क्षपाकरललाटधृक् स्वसुखमार्गसन्दायिनी ॥ २१० ॥ श्मशानतटनिष्पट प्रचटहासकालङ्कृता हठत्शठमनस्तटे सुरकपाटसंछेदकः । स्मराननविवर्धनः प्रियवसन्तसम्बायवी विराजितमुखाम्बुजः कमलमञ्जसिंहासना ॥ २११ ॥ भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः क्रियेश्वर ईलावती तरुणगाहितारावती । मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी मुरारिहरदेहगस्त्रिभुवना विनाशक्रिया ॥ २१२ ॥ द्विकः कनककाकिनी कनकतुङ्गकीलालकः कमलाकुलः कुलकलार्कमालामला । सुभक्त तमसाधकप्रकृतियोगयोग्यार्चितो विवेकगतमानसः प्रभुपरादिहस्ताचीता ॥ २१३ ॥ त्वमेव कुलनायकः प्रलययोगविद्येश्वरी प्रचण्डगणगो नगाभुवनदर्पहारी हरा । चराचरसहस्रगः सकलरूपमध्यस्थितः स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥ २१४ ॥ इति ते कथितं नाथ सहस्रनाम मङ्गलम् । अत्यद्भुतं परानन्दरससिद्धान्तदायकम् ॥ २१५ ॥ मातृकामन्त्रघटितं सर्वसिद्धान्तसागरम् । सिद्धविद्यामहोल्लास मानन्दगुणसाधनम् ॥ २१६ ॥ दुर्लभं सर्वलोकेषु यामले तत्प्रकाशितम् । तव स्नेहरसामोदमोहितानन्दभैरव ॥ २१७ ॥ कुत्रापि नापि कथितं स्वसिद्ध हानिशङ्कया । सर्वादियोग सिद्धान्तसिद्धये भुक्तिमुक्तये ॥ २१८ ॥ प्रेमाह्लादरसेनैव दुर्लभं तत्प्रकाशितम् । येन विज्ञातमात्रेण भवेद्छ्रीभैरवेश्वरः ॥ २१९ ॥ एतन्नाम शुभफलं वक्तुं न च समर्थकः । कोटिवर्षशतैनापि यत्फलं लभते नरः ॥ २२० ॥ तत्फलं योगिनामेक क्षणाल्लभ्यं भवार्णवे । यः पठेत् प्रातरुत्थाय दुर्गग्रहनिवरणात् ॥ २२१ ॥ दुष्टेन्द्रियभयेनापि महाभयनिवारणात् । ध्यात्वा नाम जपेन्नित्यं मध्याह्ने च विशेषतः ॥ २२२ ॥ सन्ध्यायां रात्रियोगे च साधयेन्नामसाधनम् । योगाभ्यासे ग्रन्थिभेदे योगध्याननिरूपणे ॥ २२३ ॥ पठनाद् योगसिद्धिः स्याद् ग्रन्थिभेदो दिने दिने । योगज्ञानप्रसिद्धिः स्याद् योगः स्यादेकचित्ततः ॥ २२४ ॥ देहस्थ देववश्याय महामोहप्रशान्तये । स्तम्भनायारिसैन्यानां प्रत्यहं प्रपठेच्छुचिः ॥ २२५ ॥ भक्तिभावेन पाठेन सर्वकर्मसु सुक्षमः । स्तम्भयेत् परसैन्यानि वारैकपाठमात्रतः ॥ २२६ ॥ वारत्रयप्रपठनाद् वशयेद् भुवनत्रयम् । वारत्रयं तु प्रपठेद् यो मूर्खः पण्डितोऽपि वा ॥ २२७ ॥ शान्तिमाप्नोति परमां विद्यां भुवनमोहिनीम् । प्रतिष्ठाञ्च ततः प्राप्य मोक्षनिर्वाणमाप्नुयात् ॥ २२८ ॥ विनाशयेदरीञ्छीघ्रं चतुर्वारप्रपाठने । पञ्चावृत्तिप्रपाठेन शत्रुमुच्चाटयेत् क्षणात् ॥ २२९ ॥ षडावृत्या साधकेन्द्रः शत्रूणां नाशको भवेत् । आकर्षयेत् परद्रव्यं सप्तवारं पठेद् यदि ॥ २३० ॥ एवं क्रमगतं ध्यात्वा यः पठेदतिभक्तितः । स भवेद् योगिनीनाथो महाकल्पद्रुमोपमः ॥ २३१ ॥ ग्रन्थिभेदसमर्थः स्यान्मासमात्रं पठेद् यदि । दूरदर्शी महावीरो बलवान् पण्डितेश्वरः ॥ २३२ ॥ महाज्ञानी लोकनाथो भवत्येव न संशयः । मासैकेन समर्थः स्यान्निर्वाणमोक्षसिद्धिभाक् ॥ २३३ ॥ प्रपठेद् योगसिद्ध्यर्थं भावकः परमप्रियः । शून्यागारे भूमिगर्तमण्डपे शून्यदेशके ॥ २३४ ॥ गङ्गागर्भे महारण्ये चैकान्ते निर्जनेऽपि वा । दुर्भिक्षवर्जिते देशे सर्वोपद्रववर्जिते ॥ २३५ ॥ श्मशाने प्रान्तरेऽश्वत्थमूले वटतरुस्थले । इष्टकामयगेहे वा यत्र लोको न वर्तते ॥ २३६ ॥ तत्र तत्रानन्दरूपी महापीठस्थलेऽपि च । दृढासनस्थः प्रजपेन्नाममङ्गलमुत्तमम् ॥ २३७ ॥ ध्यानधारणशुद्धाङ्गो न्यासपूजापरायणः । ध्यात्वा स्तौति प्रभाते च मृत्युजेता भवेद् ध्रुवम् ॥ २३८ ॥ अष्टाङ्गसिद्धिमाप्नोति चामरत्वमवाप्नुयात् । गुरुदेवमहामन्त्रभक्तो भवति निश्चितम् ॥ २३९ ॥ शरीरे तस्य दुःखानि न भवन्ति कुवृद्धयः । दुष्टग्रहाः पलायन्ते तं दृष्ट्वा योगिनं परम् ॥ २४० ॥ यः पठेत् सततं मन्त्री तस्य हस्तेऽष्टसिद्धयः । तस्य हृत्पद्मलिङ्गस्था देवाः सिद्ध्यन्ति चापराः ॥ २४१ ॥ युगकोटिसहस्राणि चिरायुर्योगिराड् भवेत् । शुद्धशीलो निराकारो ब्रह्मा विष्णुः शिवः स च । स नित्यः कार्यसिद्धश्च स जीवन्मुक्तिमाप्नुयात् ॥ २४२ ॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने ईश्वरशक्तिकाकिन्यष्टोत्तर सहस्रनामस्तोत्रं सम्पूर्णम्

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...