Saturday, April 1, 2017

एकदन्तशरणागतिस्तोत्रम्

एकदन्तशरणागतिस्तोत्रम्

एकदन्तशरणागतिस्तोत्रम् ॥ श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् । स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ४॥ त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् । तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ६॥ ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ७॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् । सुसात्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः ॥ ९॥ तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव । सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः ॥ १०॥ त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १२॥ सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १३॥ त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै ॥ भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः ॥ १४॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १५॥ यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः । स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः॥ १६॥ यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः ॥ २०॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २१॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ॥ तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २२॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ॥ एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः ॥ २३॥ एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः किल । वरदं भो वृणुत वो दास्यामि मनसीप्सितम् ॥ २४॥ भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २५॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २६ । गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २७॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श्रृण्वतां नॄणां भवेच्च बन्धहीनताम् ॥ २८॥ एकविंशतिवारं यः श्लोकानेवैकविंशतीन् । पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिः ॥ २९॥ न तस्य दुर्लभं किञ्चित्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३०॥ नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३१॥ इति श्रीमुद्गलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् । 

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...