Thursday, April 6, 2017

॥ कर्पूरादिस्तोत्रम् ॥ ॐ श्रीगुरवे नमः । ॐ नमः परमदेवतायै ॥

॥ कर्पूरादिस्तोत्रम् ॥
 ॐ श्रीगुरवे नमः । ॐ नमः परमदेवतायै ॥
॥ कर्पूरादिस्तोत्रम् ॥ ॐ श्रीगुरवे नमः । ॐ नमः परमदेवतायै ॥ श्रीकर्पूरादिस्तोत्रम् कर्पूरं मधमान्त्यस्वरपरिरहितं सेन्दुवामाक्षियुक्तं बीजं ते मातरेतत्त्रिपुरहरवधु त्रिःकृतं ये जपन्ति । तेषां गद्यानि पद्यानि च मुकुहुहरादुल्लसन्त्येव वाचः स्वच्छन्दं ध्वान्तधाराधरुरुचिरुचिरे सर्वसिद्धिं गतानाम्॥ १॥ ईशान सेन्दुवामश्रवणपरिगतो बीजमन्यन्महेशि द्वन्द्वं ते मन्दचेता यदि जपति जनो वारूमेकं कदाचित् । जित्वा वाचामधीशं धनमपि चिरं मोहयन्नम्बुजाक्षीवृन्दं चन्द्रार्धचूडे प्रभवति स महाघोरबालावतंसे॥ २॥ ईशो वैश्वानरस्थः शशधरविलसद् वामनेत्रेण युक्तो बीजं ते द्वन्द्वमन्यद् विगलितचिकुरे कालिके ये जपन्ति । द्वेष्टारं घ्नन्ति ते च त्रिभुवनमपि ते वश्यभावं नयन्ति सृक्कद्वन्दास्रधाराद्वयधरवदने दक्षिणे त्र्यक्षरेति॥ ३॥ ऊर्ध्वे वामे कृपाणं करकमलतले छिन्नमुण्डं तथाधः सव्ये चाभीर्वरं च त्रिजगदघहरे दक्षिणे कालिके च । जप्त्वैतन्नाम ये वा तव मनुविभवं भावयन्त्येतदम्ब तेषामष्टौ करस्था: प्रकटितरदने सिद्धयस्त्र्यम्बकस्य॥ ४॥ वर्गाद्यं वह्निसंस्थं विधुरतिललितं तत्त्रयं कूर्चयुग्मं लज्जाद्वन्द्वं च पश्चात् स्मितमुखि तदधष्ठद्वयं योजयित्वा । मातर्ये ये जपन्ति स्मरहरमहिले भावयन्तः स्वरूपं ते लक्ष्मीलास्यलीलाकमलदलदृशः कामरूपा भवन्ति॥ ५॥ प्रत्येकं वा द्वयं वा त्रयमपि च परं बीजमत्यन्तगुह्यं त्वन्नाम्ना योजयित्वा सकलमपि सदा भावयन्तो जपन्ति । तेषां नेत्रारविन्दे विहरति कमला वक्त्रशुभ्रांशुबिम्बे वाग्देवी देवि मुण्डस्त्रगतिशयलसत्कण्ठि पीनस्तनाढ्ये॥ ६॥ गतासूनां बाहुप्रकरकृतकञ्चीपरिलसन्नितम्बां दिग्वस्त्रां त्रिभुवनविधात्रीं त्रिणयनां । श्मशानस्ते तल्पे शवहृदि महाकालसुरतप्रयुक्तां त्वां ध्यायन् जननि जडचेता अपि कविः ॥ ७॥ शिवाभिर्घोराभिः शवनिवहमुण्डास्थिकरैः परं संकीर्णायां प्रकटितचितायां हरवधूम् ।प्रविष्टां । संतुष्टामुपरिसुरतेनातियुवतीं सदा त्वां ध्यायन्ति क्वचिदपि च न तेषां परिभवः ॥ ८॥ वदामस्ते किं वा जननि वयमुच्चैर्जडधियो न धाता नापीशो हरिरपि न ते वेत्ति परमम् । तथापि त्वद्भक्तिर्मुखरयति चास्माकममिते तदेतत्क्षन्तव्यं न खलु पशुरोषः समुचितः ॥ ९॥ समन्तादापीनस्तनजघनधृघौवनवतीरतासक्तो नक्तं यदि जपति भक्तस्तव मनुम् । विवासास्त्वां ध्यायन् गलितचिकुरस्तस्य वशगाः समस्ताः सिद्धौघा भुवि चिरतरं जीवति कविः ॥ १०॥ समाः सुस्थीभूतो जपति विपरीतां यदि सदा विचिन्त्य त्वां ध्यायन्नतिशयमहाकालसुरताम् । तदा तस्य क्षोणीतलविहरमाणस्य विदुषः कराम्भोजे वश्या पुरहस्वधू सिद्धिनिवहाः ॥ ११॥ प्रसूते संसारं जननि भवती पालयति च समस्तं क्षित्यादि प्रलयसमये संहरति च । अतस्त्वं धातासि त्रिभुवनपतिः श्रीपतिरपि महेशोऽपि प्रायः सकलमपि किं स्तौमि भवतीम् ॥ १२॥ अनेके सेवन्ते भवदधिकगीवार्णनिवहान् विमूढास्ते मातः किमपि न हि जानन्ति परमम् । समाराध्यामाद्यां हरिहरविरिञ्चादिविबुधैः प्रपन्नोऽस्मि स्वैरं रतिरससमहानन्दनिरताम् ॥ १३॥ धरत्रि कीलालं शुचिरपि समीरोऽपि गगनं त्वमेका कल्याणी गिरिशरमणी कालि सकलम् । प्रसन्नां त्वं भूया भवमनु न भूयान्मम जनुः ॥ १४॥ श्मशानस्थः सुस्थो गलितचिकुरो दिक्पटधरः सहस्रं त्वकार्णां निजगलितवीर्येण कुसुमम् । जपंस्त्वत्प्रयेकं मनुमपि तव ध्याननिरतो महाकालि स्वैरं स भवति धरित्रीपरिवृढः ॥ १५॥ गृहे संमार्ज्यन्या परिगलितविर्यं हि चिकुरं समूलं मध्याह्ने वितरति चितायां कुजदिने । समुच्चार्य प्रमेणा मनुमपि सकृत्कालि सततं गजारूढो याति क्षितिपरिवृढः सत्कविवरः ॥ १६॥ स्वपुष्पैराकीर्णं कुसुमधनुषो मन्दिरमहो पुरो ध्यायन्ध्यायन् यदि जपति भक्तस्तव मनुम् । स गन्धर्वश्रेणीपतिरपि कवित्वामृतनदीनदीनः पर्यन्ते परमपदलीनः प्रभवति ॥ १७॥ त्रिपञ्चारे पीठे शवशिवहृदि स्मेरवदनां महाकालेनोच्चैर्मदनरसलावण्यनिरताम् । समासक्तो नक्तं स्वयमपि रतानन्दनिरतो जनो यो ध्यायेत्त्वामयि जननि स स्यात् स्मरहरः ॥ १८॥ सलोमास्थि स्वैरं पललमपि मार्जारमसिते परं चोष्ट्त्रं मैशं नरमहिषयोश्छागमपि वा । बलिम् ते पूजायामयि वितरतां मर्त्यवसतां सतां सिद्धिः सर्वा प्रतिपदमपूर्वा प्रभवति ॥ १९॥ वशी लक्षं मन्त्रं प्रजपति हविष्याशनरतो दिवा मातर्युष्मच्चरणयुगलध्याननिपुणः । परं नक्तं नग्नो निधुवनविनोदेन च मनुं जपेल्लक्षं स स्यात् स्मरहरसमानः क्षितितले ॥ २०॥ इदं स्तोत्रं मातस्तव मनुसमुद्धारणजनुः स्वरूपाख्यं पादाम्बुजयुगलपूजाविधियुतम् । निशार्धं वा पूजासमयमधि वा यस्तु पठति प्रलापस्तस्यापि प्रसरति कवित्वामृतरसः ॥ २१॥ कुरङ्गाक्षीवृन्दं तमनुसरति प्रेमतरलं वशस्तस्य क्षोणीपतिरपि कुबेरप्रतिनिधिः । रिपुः कारागारं कलयति च तं केलिकलया चिरं जीवन्मुक्तः प्रभवति स भक्तः प्रतिजनुः ॥ २२॥ इति श्रीमन्महाकालिविरचितं श्रीमद्दक्षिणकालिकायाः स्वरूपाख्यं स्तोत्रं समाप्तम्

No comments:

Post a Comment

इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें।

 इन हिंदी कहावतों के स्थान पर संस्कृत की सूक्ति बोलें। 1. अपनी डफली अपना राग - मुण्डे मुण्डे मतिर्भिन्ना । 2. का बरखा जब कृषि सुखाने - पयो ग...