Monday, April 3, 2017

(पद्मपुराण उत्तर0 112/26)

(पद्मपुराण उत्तर0 112/26)
 
*प्रजाभ्यः पुण्यपापानां राजा षश्ठांशमुद्धरेत्।*
*शिष्याद् गुरुः स्त्रियो भर्त्ता पिता पुत्रात्तथैव च।।* (पद्मपुराण उत्तर0 112/26)

 राजा प्रजा के, गुरु शिष्य के , पति पत्नी के तथा पिता पुत्र के पुण्य -पाप का छठा अंश प्राप्त कर लेता है । अतः पाप कर्म से बचना चाहिए । मंगलमय सुप्रभात आनन्द दायी हो जय श्री कृष्ण...

॥ कनक धारास्तोत्र ॥

॥ कनक धारास्तोत्र ॥

॥ कनक धारास्तोत्र ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गळदेवतायाः ॥ १॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसंभवायाः ॥ २॥ आमीलिताक्षमधिगम्य मुदा मुकुन्दं आनन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ३॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ४॥ कालाम्बुदाळिललितोरसि कैटभारेः धाराधरे स्फुरति या तडिदङ्गनेव । मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५॥ प्राप्तं पदं प्रथमतः खलु यत्प्रभावात् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ६॥ विश्वामरेन्द्रपदवीभ्रमदानदक्षं आनन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्द्धम् इन्दीवरोदरसहोदरमिन्दिरायाः ॥ ७॥ इष्टा विशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८॥ दद्याद्दयानुपवनो द्रविणाम्बुधारां अस्मिन्नकिञ्चनविहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ९॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थिता या तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १०॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११॥ नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२॥ नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै । नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ १३॥ नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसि स्थितायै । नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ १४॥ नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै । नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ॥ १५॥ सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १६॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । संतनोति वचनाङ्गमानसैः त्वां मुरारिहृदयेश्वरीं भजे ॥ १७॥ सरसिजनिलये सरोजहस्ते धवळतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १८॥ दिग्घस्तिभिः कनककुंभमुखावसृष्ट स्वर्वाहिनी विमलचारुजलाप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १९॥ कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ २०॥ देवि प्रसीद जगदीश्वरि लोकमातः कल्यानगात्रि कमलेक्षणजीवनाथे । दारिद्र्यभीतिहृदयं शरणागतं माम् आलोकय प्रतिदिनं सदयैरपाङ्गैः ॥ २१॥ स्तुवन्ति ये स्तुतिभिरमीभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभागिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ २२॥ ॥ इति श्रीमद् शङ्कराचार्यकृत श्री कनकधारास्तोत्रं सम्पूर्णम् ॥

Saturday, April 1, 2017

एकश्लोकि रामायणम् ॥

एकश्लोकि रामायणम् ॥ आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् । वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥ ॥ एकश्लोकि रामायणं सम्पूर्णम् ॥
एकश्लोकि रामायणम् ॥ आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् । वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥ ॥ एकश्लोकि रामायणं सम्पूर्णम् ॥

॥ एकश्लोकी भागवतम् ॥ ek sholok bhagwat in Sanskrit

॥ एकश्लोकी भागवतम् ॥ ek sholok bhagwat in Sanskrit
 आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम् मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् । कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम् एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् । इति श्रीभागवतसूत्र ॥

एकदन्तशरणागतिस्तोत्रम्

एकदन्तशरणागतिस्तोत्रम्

एकदन्तशरणागतिस्तोत्रम् ॥ श्रीगणेशाय नमः । देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिन्त्यबोधम् । अनादिमध्यान्तविहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ १॥ अनन्तचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ २॥ समाधिसंस्थं हृदि योगिनां यं प्रकाशरूपेण विभातमेतम् । सदा निरालम्बसमाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ३॥ स्वबिम्बभावेन विलासयुक्तां प्रत्यक्षमायां विविधस्वरूपाम् । स्ववीर्यकं तत्र ददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ४॥ त्वदीयवीर्येण समर्थभूतस्वमायया संरचितं च विश्वम् । तुरीयकं ह्यात्मप्रतीतिसंज्ञं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वदीयसत्ताधरमेकदन्तं गुणेश्वरं यं गुणबोधितारम् । भजन्तमत्यन्तमजं त्रिसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ६॥ ततस्वया प्रेरितनादकेन सुषुप्तिसंज्ञं रचितं जगद्वै । समानरूपं ह्युभयत्रसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ७॥ तदेव विश्वं कृपया प्रभूतं द्विभावमादौ तमसा विभान्तम् । अनेकरूपं च तथैकभूतं तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरितकेन सृष्टं बभूव सूक्ष्मं जगदेकसंस्थम् । सुसात्विकं स्वप्नमनन्तमाद्यं तमेकदन्तं शरण व्रजामः ॥ ९॥ तदेव स्वप्नं तपसा गणेश सुसिद्धरूपं विविधं बभूव । सदैकरूपं कृपया च तेऽद्य तमेकदन्तं शरणं व्रजामः ॥ १०॥ त्वदाज्ञया तेन त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । विभिन्नजाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तदेव जाग्रद्रजसा विभातं विलोकितं त्वत्कृपया स्मृतेन । बभूव भिन्नं च सदैकरूपं तमेकदन्तं शरणं व्रजामः ॥ १२॥ सदेव सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । धियः प्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १३॥ त्वदाज्ञया भान्ति ग्रहाश्च सर्वे प्रकाशरूपाणि विभान्ति खे वै ॥ भ्रमन्ति नित्यं स्वविहारकार्यास्तमेकदन्तं शरणं व्रजामः ॥ १४॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १५॥ यदाज्ञया भूमिजलेऽत्र संस्थे यदाज्ञयापः प्रवहन्ति नद्यः । स्वतीर्थसंस्थश्च कृतः समुद्रस्तमेकदन्तं शरणं व्रजामः॥ १६॥ यदाज्ञया देवगणा दिविस्था ददन्ति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणाः स्थिरा वै तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया शेषधराधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाग्निर्जठरादिसंस्थः । यदाज्ञयेदं सचराचरं च तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदन्तरे संस्थितमेकदन्तस्तदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं यस्तमेकदन्तं शरणं व्रजामः ॥ २०॥ सुयोगिनो योगबलेन साध्यं प्रकुर्वते कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २१॥ गृत्समद उवाच । एवं स्तुत्वा गणेशानं देवाः समुनयः प्रभुम् ॥ तूष्णीम्भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २२॥ स तानुवाच प्रीतात्मा देवर्षीणां स्तवेन वै ॥ एकदन्तो महाभागो देवर्षीन् भक्तवत्सलः ॥ २३॥ एकदन्त उवाच । स्तोत्रेणाऽहं प्रसन्नोऽस्मि सुराः सर्षिगणाः किल । वरदं भो वृणुत वो दास्यामि मनसीप्सितम् ॥ २४॥ भवत्कृतं मदीयं यत्स्तोत्रं प्रीतिप्रदं च तत् । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २५॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्रपौत्रादिकं सर्वं कलत्रं धनधान्यकम् ॥ २६ । गजाश्वादिकमत्यन्तं राज्यभोगादिकं ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २७॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां श्रृण्वतां नॄणां भवेच्च बन्धहीनताम् ॥ २८॥ एकविंशतिवारं यः श्लोकानेवैकविंशतीन् । पठेच्च हृदि मां स्मृत्वा दिनानि त्वेकविंशतिः ॥ २९॥ न तस्य दुर्लभं किञ्चित्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन्मर्त्यः सर्वत्र विजयी भवेत् ॥ ३०॥ नित्यं यः पठति स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति च ॥ ३१॥ इति श्रीमुद्गलपुराणे एकदन्तशरणागतिस्तोत्रं सम्पूर्णम् । 

एकदंतगणेशस्तोत्रम् all Sanskrit stotra

 all stores in Sanskrit

एकदंतगणेशस्तोत्रम् ॥ श्रीगणेशाय नमः । मदासुरं सुशान्तं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च मुनय एकदन्तं समाययुः ॥ १॥ प्रणम्य तं प्रपूज्यादौ पुनस्तं नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदन्तं गणेश्वरम् ॥ २॥ देवर्षय ऊचुः सदात्मरूपं सकलादि-भूतममायिनं सोऽहमचिन्त्यबोधम् । अनादि-मध्यान्त-विहीनमेकं तमेकदन्तं शरणं व्रजामः ॥ ३॥ अनन्त-चिद्रूप-मयं गणेशं ह्यभेद-भेदादि-विहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदन्तं शरणं व्रजामः ॥ ४॥ विश्वादिभूतं हृदि योगिनां वै प्रत्यक्षरूपेण विभान्तमेकम् । सदा निरालम्ब-समाधिगम्यं तमेकदन्तं शरणं व्रजामः ॥ ५॥ स्वबिम्बभावेन विलासयुक्तं बिन्दुस्वरूपा रचिता स्वमाया । तस्यां स्ववीर्यं प्रददाति यो वै तमेकदन्तं शरणं व्रजामः ॥ ६॥ त्वदीय-वीर्येण समर्थभूता माया तया संरचितं च विश्वम् । नादात्मकं ह्यात्मतया प्रतीतं तमेकदन्तं शरणं व्रजामः ॥ ७॥ त्वदीय-सत्ताधरमेकदन्तं गणेशमेकं त्रयबोधितारम् । सेवन्त आपुस्तमजं त्रिसंस्थास्तमेकदन्तं शरणं व्रजामः ॥ ८॥ ततस्त्वया प्रेरित एव नादस्तेनेदमेवं रचितं जगद्वै । आनन्दरूपं समभावसंस्थं तमेकदन्तं शरणं व्रजामः ॥ ९॥ तदेव विश्वं कृपया तवैव सम्भूतमाद्यं तमसा विभातम् । अनेकरूपं ह्यजमेकभूतं तमेकदन्तं शरणं व्रजामः ॥ १०॥ ततस्त्वया प्रेरितमेव तेन सृष्टं सुसूक्ष्मं जगदेकसंस्थम् । सत्त्वात्मकं श्वेतमनन्तमाद्यं तमेकदन्तं शरणं व्रजामः ॥ ११॥ तदेव स्वप्नं तपसा गणेशं संसिद्धिरूपं विविधं वभूव । सदेकरूपं कृपया तवाऽपि तमेकदन्तं शरणं व्रजामः ॥ १२॥ सम्प्रेरितं तच्च त्वया हृदिस्थं तथा सुसृष्टं जगदंशरूपम् । तेनैव जाग्रन्मयमप्रमेयं तमेकदन्तं शरणं व्रजामः ॥ १३॥ जाग्रत्स्वरूपं रजसा विभातं विलोकितं तत्कृपया यदैव । तदा विभिन्नं भवदेकरूपं तमेकदन्तं शरणं व्रजामः ॥ १४॥ एवं च सृष्ट्वा प्रकृतिस्वभावात्तदन्तरे त्वं च विभासि नित्यम् । बुद्धिप्रदाता गणनाथ एकस्तमेकदन्तं शरणं व्रजामः ॥ १५॥ त्वदाज्ञया भान्ति ग्रहाश्च सर्वे नक्षत्ररूपाणि विभान्ति खे वै । आधारहीनानि त्वया धृतानि तमेकदन्तं शरणं व्रजामः ॥ १६॥ त्वदाज्ञया सृष्टिकरो विधाता त्वदाज्ञया पालक एव विष्णुः । त्वदाज्ञया संहरको हरोऽपि तमेकदन्तं शरणं व्रजामः ॥ १७॥ यदाज्ञया भूर्जलमध्यसंस्था यदाज्ञयाऽपः प्रवहन्ति नद्यः । सीमां सदा रक्षति वै समुद्रस्तमेकदन्तं शरणं व्रजामः ॥ १८॥ यदाज्ञया देवगणो दिविस्थो ददाति वै कर्मफलानि नित्यम् । यदाज्ञया शैलगणोऽचलो वै तमेकदन्तं शरणं व्रजामः ॥ १९॥ यदाज्ञया शेष इलाधरो वै यदाज्ञया मोहप्रदश्च कामः । यदाज्ञया कालधरोऽर्यमा च तमेकदन्तं शरणं व्रजामः ॥ २०॥ यदाज्ञया वाति विभाति वायुर्यदाज्ञयाऽग्निर्जठरादिसंस्थः । यदाज्ञया वै सचराऽचरं च तमेकदन्तं शरणं व्रजामः ॥ २१॥ सर्वान्तरे संस्थितमेकगूढं यदाज्ञया सर्वमिदं विभाति । अनन्तरूपं हृदि बोधकं वै तमेकदन्तं शरणं व्रजामः ॥ २२॥ यं योगिनो योगबलेन साध्यं कुर्वन्ति तं कः स्तवनेन स्तौति । अतः प्रणामेन सुसिद्धिदोऽस्तु तमेकदन्तं शरणं व्रजामः ॥ २३॥ गृत्समद उवाच एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै । तूष्णीं भावं प्रपद्यैव ननृतुर्हर्षसंयुताः ॥ २४॥ स तानुवाच प्रीतात्मा ह्येकदन्तः स्तवेन वै । जगाद तान् महाभागान् देवर्षीन् भक्तवत्सलः ॥ २५॥ एकदन्त उवाच प्रसन्नोऽस्मि च स्तोत्रेण सुराः सर्षिगणाः किल । वृणुध्वं वरदोऽहं वो दास्यामि मनसीप्सितम् ॥ २६॥ भवत्कृतं मदीयं वै स्तोत्रं प्रीतिप्रदं मम । भविष्यति न सन्देहः सर्वसिद्धिप्रदायकम् ॥ २७॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । पुत्र-पौत्रादिकं सर्वं लभते धन-धान्यकम् ॥ २८॥ गजाश्वादिकमत्यन्तं राज्यभोगं लभेद् ध्रुवम् । भुक्तिं मुक्तिं च योगं वै लभते शान्तिदायकम् ॥ २९॥ मारणोच्चाटनादीनि राज्यबन्धादिकं च यत् । पठतां शृण्वतां नृणां भवेच्च बन्धहीनता ॥ ३०॥ एकविंशतिवारं च श्लोकांश्चैवैकविंशतिम् । पठते नित्यमेवं च दिनानि त्वेकविंशतिम् ॥ ३१॥ न तस्य दुर्लभं किंचित् त्रिषु लोकेषु वै भवेत् । असाध्यं साधयेन् मर्त्यः सर्वत्र विजयी भवेत् ॥ ३२॥ नित्यं यः पठते स्तोत्रं ब्रह्मभूतः स वै नरः । तस्य दर्शनतः सर्वे देवाः पूता भवन्ति वै ॥ ३३॥ एवं तस्य वचः श्रुत्वा प्रहृष्टा देवतर्षयः । ऊचुः करपुटाः सर्वे भक्तियुक्ता गजाननम् ॥ ३४॥ ॥ इती श्री'एकदन्तस्तोत्रं सम्पूर्णम् ॥

ऋद्धिस्तवः all stoeres in Sanskrit


ऋद्धिस्तवः ॥
श्रीमन्वृषभशैलेश वर्धतां विजयी भवान् । दिव्यं त्वदीयमैश्वर्यं निर्मर्यादं विजृम्भताम् ॥ १॥ देवीभूषायुधैर्नित्यैर्मुक्तैर्मोक्षैकलक्षणैः । सत्त्वोत्तरैस्त्वदीयैश्च सङ्गः स्तात्सरसस्तव ॥ २॥ प्राकारगोपुरवरप्रासादमणिमण्टपाः । शालिमुद्गतिलादीनां शालाश्शैलकुलोज्ज्वलाः ॥ ३॥ रत्नकाञ्चनकौशेयक्षौमक्रमुकशालिकाः । शय्यागृहाणि पर्यङ्कवर्याः स्थूलासनानि च ॥ ४॥ कनत्कनकभृङ्गारपतद्ग्रहकलाचिकाः । छत्रचामरमुख्याश्च सन्तु नित्याः परिच्छदाः ॥ ५॥ अस्तु निस्तुलमव्यग्रं नित्यमभ्यर्चनं तव । पक्षेपक्षे विवर्धन्तां मासिमासि महोत्सवाः ॥ ६॥ मणिकाञ्चनचित्राणि भूषणान्यम्बराणि च । काश्मीरसारकस्तूरीकर्पूराद्यनुलेपनम् ॥ ७॥ कोमलानि च दामानि कुसुमैस्सौरभोत्करैः । धूपाः कर्पूरदीपाश्च सन्तु सन्ततमेव ते ॥ ८॥ नृत्तगीतयुतं वाद्यं नित्यमत्र विवर्धताम् । श्रोत्रेषु[च] सुधाधाराः कल्पन्तां काहलीस्वनाः ॥ ९॥ कन्दमूलफलोदग्रं कालेकाले चतुर्विधम् । सूपापूपघृतक्षीरशर्करासहितं हविः ॥ १०॥ घनसारशिलोदग्रैः क्रमुकाष्टदलैस्सह । विमलानि च ताम्बूलीदलानि स्वीकुरु प्रभो ॥ ११॥ प्रीतिभीतियुतो भूयाद्भूयान् परिजनस्तव । भक्तिमन्तो भजन्तु त्वां पौरा जानपदास्तथा ॥ १२॥ वरणीधनरत्नानि वितरन्तु चिरं तव । कैङ्कर्यमखिलं सर्वे कुर्वन्तु क्षोणिपालकाः ॥ १३॥ प्रेमदिग्धदृशः स्वैरं प्रेक्षमाणास्त्वदाननम् । महान्तस्सन्ततं सन्तो मङ्गलानि प्रयुञ्जताम् ॥ १४॥ एवमेव भवेन्नित्यं पालयन् कुशली भवान् । मामहीरमण श्रीमान् वर्धतामभिवर्धताम् ॥ १५॥ पत्युः प्रत्यहमित्थं यः प्रार्थयेत समुच्छ्यम् । प्रसादसुमुखः श्रीमान् पश्यत्येनं परः पुमान् ॥ १६॥ ॥ इति ऋद्धिस्तवः सम्पूर्णः ॥

धातु (पठ्, गम्, नम्, दृश्/पश्य, खाद्, लिख्, वद्, क्रीड्, धाव्, हस्, स्था, पा, दा, नी, भू आदि) के लट्, लङ् और लृट् लकार

 धातु (पठ्, गम्, नम्, दृश्/पश्य, खाद्, लिख्, वद्, क्रीड्, धाव्, हस्, स्था, पा, दा, नी, भू आदि) के लट्, लङ् और लृट् लकार दृश् (पश्य) धातु (दे...